पूर्वम्: ५।४।५७
अनन्तरम्: ५।४।५९
 
सूत्रम्
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ॥ ५।४।५८
काशिका-वृत्तिः
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ ५।४।५८

द्वितीयतृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे, न अन्यत्र। पुनः कृञ्ग्रहणम् भ्वस्त्योर् निवृत्त्यर्थम्। द्वितीयाकरोति। द्वितीयं कर्षणं विलेखनं करोति इत्यर्थः। तृतीयाकरोति। शम्बाकरोति। अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषति इत्यर्थः। बीजाकरोति। सह बीजेन विलेहनं करोति इत्यर्थः। कृषौ इति किम्? क्वितीयं करोति पदम्।
न्यासः
कृञो द्वितीयतृतीयशभ्बवीजात्? कृषौ। , ५।४।५८

ननु कृभ्बस्तियोग इत्यतः करोतिरनुवत्र्तते, तत्? किमर्थं कञ्ग्रहणम्()? इत्यादि। धातुत्र्यं प्रकृतम्(), तत्रासति कृञ्ग्रहणे यथा कृञो भवति, तथा भ्वस्त्योरपि स्यात्()। तस्मात्? कृञो ग्रहणं भ्वस्तिनिवृत्त्यर्थम्()॥ "संक्यायाः" इति सामीप्यसम्बन्धे षष्ठी। "गुणान्तायाः" इति प्रत्ययविधौ संख्यावाचिनः शब्दस्येत्यनेन संख्याशब्दस्य षष्ठ()न्ततां दर्शयति। अन्तशब्दोऽवयववचनोऽप्यस्ति, तस्येह ग्रहणे संख्याशब्देन सम्बन्धो न स्यात्(), न हि संख्याशब्दस्य गुणशब्दोऽवयव उपपद्यते--इति मत्वा सामीप्यवचनोऽयमन्त शब्द इति दर्शयन्नाह--"गुणशब्दोऽन्ते समीपे" इति। "यत्र" इति। अनेन प्रकृतिनिर्द्दिश्यते। "सा" इत्यादि। सा प्रकृतिः संख्या गुणान्तेनाभिधीयत इत्यर्थः। गुणशब्दोऽन्ते यस्य स तथोक्तः। "तादृशात्()" इत्यादिना तथाभूतात्? संख्याशब्दात्? सामीप्यवर्त्तिगुणशब्दादित्यर्थः। ननु च सामीप्यवचनान्तशब्दे संख्यायाः पूर्वः परो वा गुण इति विशेषो नावधाय्र्यते, तथा च यत्राप्यसौ पूर्वस्तत्रापि स्यात्()? नैष दोषः; सामीप्येऽयं वत्र्तमानो नियतदेशमेव पराश्रयं वा यत्? सामीप्यं तदाचष्टे, न सामीप्यमात्रम्(); यथा--अवयवे वत्र्तमानो नावयवमात्रमभिधत्ते, किं तर्हि? विशिष्टवेशमेवादयवम्()--"द्विगुणं विलेखनं करोति" इति॥
बाल-मनोरमा
कृञो द्वितीयतृतीयशम्बबीजात्कृषौ , ५।४।५८

कृञो द्वितीय। द्वितीयादिभ्य इति। द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः। कृञ एव योगे इति। कृञ्ग्रहणात्कृभ्वस्तिर्नानुवर्तत इति भावः। "मद्रात्परिवापणे" इति यावत्कृञ इत्यनुवत्र्तते। बहुलोक्तेरिति। "डाचि बहुलं द्वे भवतः" इति बहुलग्रहणादव्यक्तानुकरणस्यैव डाचि द्वित्वम्। नतु तदन्यस्येत्यर्थः। शम्बशब्दः प्रतिलोमे इति। "वर्तते" इति शेषः। बीजेन सह कर्षतीति। आदौ कृष्टक्षेत्रे कुलत्थादिबीजानां वापे कृते पुनर्बोजैः सह कर्षणं प्रसिद्धम्। "कर्षात्वत" इति सूत्रभाष्यप्रामाण्यात्कृषधातुः शब्विकरणोऽस्ति। तेन शविकरणत्वात्कृषतीत्येव युक्तमिति न शङ्क्यम्।

तत्त्व-बोधिनी
कृञो द्वितीयतृतीयशम्बबीजात्कृषौ १५८२, ५।४।५८

बीजेन सहेति। ननु बीजेन सह भूतलस्य कर्षणे बीजानामपि कर्षणप्रसङ्गाद्विवक्षितार्थो न सिध्यतीति चेत्। अत्राहुः---वृत्तिविषये बीजशब्दो बीजावापसहिते विलेखने वर्तते। तथा च बीजावापसहितं विलेखनं करोतीत्यर्थ इति।