पूर्वम्: ५।४।५
अनन्तरम्: ५।४।७
 
सूत्रम्
बृहत्या आच्छादने॥ ५।४।६
काशिका-वृत्तिः
बृहत्या आच्छादने ५।४।६

कन्ननुवर्तते, न प्रतिषेधः। बृहतीशब्दादाच्छादने वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। बृहतिका। आच्छादने इति किम्? बृहतीछन्दः।
न्यासः
बृहत्या आच्छादने। , ५।४।६

"कन्ननुवत्र्तते" इति। स्वरितत्वात्()। "न प्रतिषेधः" इति। विपर्ययात्()। "बृहतिका" इति। केऽणः" ७।४।१३ इति ह्यस्वः॥
बाल-मनोरमा
बृहत्या आच्छादने , ५।४।६

वृहत्या आच्छादने। "कन्" इति शेषः। बृहत्येव बृहतिका=उत्तरीयं वासः। तदाह--द्वौ प्रावार इति। अमरवाक्यमिदम्। अषडक्षा। स्वार्थे इति। शेषपूरणमिदम्। अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्योऽध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः।