पूर्वम्: ५।४।६८
अनन्तरम्: ५।४।७०
 
सूत्रम्
न पूजनात्॥ ५।४।६९
काशिका-वृत्तिः
न पूजनात् ५।४।६९

यान् शब्दानुपादाय समासान्ता विधीयन्ते राजाहःसखिभ्यष् टच् ५।४।९१ इत्येवम् आदीन्, यदा ते पूजनात् पूजनवचनात् परे भवन्ति तदा समासान्तो न भवति। सुराजा। अतिराजा। सुगौः। अतिगौः। पूजायां स्वतिग्रहणं कर्तव्यम्। इह मा भूत्, परमराजः, परमगवः इति। प्राग्बहुव्रीहिग्रहणं च कर्तव्यम्। बहुव्रीहौ सक्थ्यक्ष्णोः इत्येवम् आदौ प्रतिषेधो न भवति। सुसक्थः। अतिसक्थः। स्वक्षः। अत्यक्षः।
लघु-सिद्धान्त-कौमुदी
न पूजनात् ९९९, ५।४।६९

पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा। अतिराजा॥
लघु-सिद्धान्त-कौमुदी
इति समासान्ताः ९९९, ५।४।६९

लघु-सिद्धान्त-कौमुदी
अथ तद्धिताः, तत्रादौ साधारणप्रत्ययाः ९९९, ५।४।६९

न्यासः
न पजनात्?। , ५।४।६९

"सुराजा, अतिराजा" इति। शोभनो राजा, अतिशयितः राजेति विगृह्र "कुगतिप्रादयः २।२।१८ इति समासः। "सुगौः" इति। पूर्ववत्समासः। अत्र "गोरतद्धितलुकि" (५।४।९२) इति टच्? प्राप्नोति; अस्माद्वचनान्न भवति। "परमराजः, परमगवः" इति। "सन्महत्()" २।१।६३ इति समासः। "सुसक्थः" इति। "बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच्()" ५।४।११३ इति षच्()॥
बाल-मनोरमा
न पूजनात् ९४०, ५।४।६९

न पूजनात्। "परेभ्य" इत्यध्याहार्यम्। "समासान्ता" इति पूर्वसूत्रमनुवर्तते। तदाह--पूजनार्थादिति। "पूजायां स्वतिग्रहणं कर्तव्य"मिति वार्तिकमभिप्रेत्योदाहरति--सुराजेति। सु=शोभनो राजेति प्रादिसमासः। अतिराजेति। पूज्यो राजेत्यर्थः। उभयत्रापि "राजाहःसखिभ्यः" इति टज्न भवति। स्वतिभ्यामेवेति। स्वतिभ्यां परो यो राजन्शब्दस्तस्मादेवेत्यर्थः, तथा वार्तिकादिति भावः। नेहेति। "निषेधे" इति शेषः। परमराज इति। परमश्चासौ राजा चेति विग्रहः। अतिगव इति। "अत्यादयः" इति समासः। अतेः पूजनार्थकत्वाऽभावान्न टचो निषेधः। एवं "परमराज" इत्यत्रापि। इत्यतः प्रागिति। "प्राग्बहुव्रीहिग्रहणं कर्तव्य"मिति वार्तिकार्थसङ्ग्रहोऽयम्। सुसक्थः स्वक्ष इति। सु=शोभने सक्थिनी यस्य, सु=शोभने अक्षिणी यस्येति च विघः। "बहुव्रीहौ सक्थ्यक्ष्णो"रिति षच्। किमः क्षेपे। किंराजा किंसखेति। इह "राजाहःसखिभ्यः" इति टज्नभवति, "किं क्षेपे" इति समासः। किंराजः किंसख इति। किंशब्दोऽत्र प्रश्ने। कस्य राजा, को राजेति वा विग्रहः।