पूर्वम्: ५।४।७२
अनन्तरम्: ५।४।७४
 
सूत्रम्
बहुव्रीहौ संख्येये डजबहुगणात्॥ ५।४।७३
काशिका-वृत्तिः
बहुव्रीहौ सङ्ख्येये डजबहुगणात् ५।४।७३

सङ्ख्येये यो बहुव्रीहिर् वर्तते तस्मादबहुगणान्तात् डच् प्रत्ययो भवति। सङ्ख्ययाव्ययासन्न इति यो बहुव्रीहिः तस्य इदं ग्रहणम्। उपदशाः। उपविंशाः। उपत्रिंशाः। आसन्नदशाः। अदूरदशाः। अधिकदशाः। द्वित्राः। पञ्चषाः। पञ्चदशाः। सङ्ख्येये इति किम्? चित्रगुः। शबलगुः। अबहुगणातिति किम्? उपबहवः। उपगणाः। अत्र स्वरे विशेषः। डच्प्रकरणे सङ्ख्यायास् तत्पुरुषस्य उपसङ्ख्यानं कर्तव्यं निस्त्रिंशाद्यर्थम्। निर्गतानि त्रिंशतः निस्त्रिंशानि वर्षाणि देवदत्तस्य। निश्चत्वारिंशानि यज्ञदत्तस्य। निर्गतस्त्रिंशतो ऽङ्गुलिभ्यो निस्त्रिंशः खड्गः।
न्यासः
बहुव्रीहौ संख्येये डजबहुगणात्?। , ५।४।७३

बहुव्रीहाविति सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमी। "संख्याव्ययासन्न" २।२।२५ इत्यादिना यो बहुव्रीहिः, तस्येदं ग्रहणमिति। तस्यैव संख्येये वृत्तिः। यत्तर्हि वार्थे वत्र्तते--द्वित्राः, पञ्चषा इति, यश्च सुजर्थे--द्विदशाः, त्रिदशा इति, तत्र न प्राप्नोति? नैष दोषः; तावपि संख्येये वत्र्तत एव; संख्येयतयैव वार्थस्य सुजर्थस्य चाभिधानात्()। दशानां च समीपे उपदशाः। विशतेः समीपे उपविंशाः। विशतेः समीपे उपविंशाः। "तिविंशतेडिति" ६।४।१४२ इति तिलोपः, द्वयोरप्यकारयोः "अतो गुणे" ६।१।९४ पररूपत्वम्()। दशानामासन्ना "आसन्नदशाः"। दशानामदूरा "अदूरदशाः" दशानामधिका "अधिकदशाः" द्वौ वा त्रयो वा "द्वित्रा"। पञ्च वा षङ्वा "पञ्चषाः"। सर्वत्र "संख्याव्ययासन्न" २।२।२४ इत्यादिना बहुव्रीहिः। "चित्रगुः इति। "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इति ह्यस्वः। ननु च नञिवयुक्तन्यायेन (व्या।प।६५) बहुगणपरतिषेधात्? तत्सदृशविज्ञानेन संख्योत्तरपद एव बहुव्रीहिविज्ञास्यते, एवञ्च चित्रगुप्रभृतिषु प्राप्तिरेव नास्तीति किं संख्याग्रहणेन? स्यादेतदेवं यदि बहुशब्दः संख्येयपदमेव स्यात्(); स च वैपुल्यवचनोऽप्यस्ति, तेनासति संख्येयग्रहणे संख्योत्तरपदग्रहणं न स्यात्()। "उपबहवः, उपगणाः" इति पूर्ववद्वहुव्रीहीः। "अत्र" इत्यादि। उपगणा इत्यत्र सत्यसति वा डाचि रूपं प्रति विशेषो नास्तीति। स्वरे तु विद्यते--डचि हि सत्यन्तोदात्तत्वं स्यात्(), तस्मिन्नसति पूर्वपदप्रकृतिभावेनाद्युदात्तं भवति। "संख्यायाः" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्पुरुषस्य संख्यावाचि यदुत्तरपदं ततो डचः प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्()--"संख्यायाश्च गुणान्तायाः" ५।४।५९ इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः तेन संख्यायास्तुत्पुरुषस्य डज्भविष्यतीति। "नि()स्त्रशाद्यर्थम्? इति। आदिशब्दः प्रकारे। "निस्त्रिशाः"["नि()स्त्रशानि, नि()स्त्रशः" इत्येव मूलोपात्ते पदे] इति। "कुगतिप्रादयः" २।२।१८ इति तत्पुरुषः। डचश्चित्करणमन्तोदात्तार्थम्()। अन्यथा हि प्रत्ययस्य समासैकदेशत्वात्? प्रत्यस्वरो बहुव्रीहिस्वरेण बाध्यते॥
बाल-मनोरमा
बहुव्रीहौ सङ्ख्येये डजबहुगणात् ८४२, ५।४।७३

अथ बहुव्रीहावसाधारणसमासान्तानाह--बहुव्रीहौ। सङ्ख्येये यो बहुव्रीहिरिति। "सङ्ख्ययाव्यये"ति विहित" इति शेषः। तस्मादिति। बहुव्रीहाविति। पञ्चम्यर्ते सप्तमीति भावः। डच्स्यादिति। समासान्तस्तद्धितश्चेति ज्ञेयम्। उपदशा इति। दशानां समीपे ये सन्तीति विग्रहः। "सङ्ख्ययाऽव्यये"ति बहुव्रीहिः। सुब्लुक्। उपदशन्शब्दाड्डचि "नस्तद्धिते" इति टिलोपः। उपबहवः। उपगणा इति। बहूनां समीपे ये सन्तीति, गणस्य समीपे ये सन्तीति च विग्रहः। "बहुगणवतुडति सङ्ख्ये"ति सङ्ख्यात्वात् "सङ्ख्ययाव्यये"ति समासः। अबहुगणादिति निषेधान्न डच्। ननूपगणा इत्यत्र डचि सत्यसति च रूपसाम्या()त्क तन्निषेधेनेत्यत आह--स्वरेविशेष इति। डचि सति "चित" इति अन्तोदात्तत्वं स्यादित्यर्थः।

सङ्ख्याया इति। सङ्ख्यान्तत्पुरुषस्य समासान्तो डज्वक्तव्य इत्यर्थः। नि()स्त्रशानीति। "निरादयः क्रान्ते"ति तत्पुरुषः, डच्, "टे"रिति टिलोपः। तिं()रशतोऽधिकानीति यावत्। नि()स्त्रश इति। समासादि पूर्ववत्। तिं()रशदधिकाङ्गुलिरित्यर्थः। न च गवां विंशतिर्गोविंशतिरित्यत्रातिप्रसङ्गः शङ्क्यः, "अव्ययादे"रिति विशेषणादिति भाष्ये स्पष्टम्। नचैकाधिका विंशतिरेकविंशतिरित्यत्र "सङ्ख्ययाव्यये"ति समासे सति "बहुव्रीहौ सङ्ख्येये" इति डच्शङ्क्यः, "अन्यत्राधिकलोपा"दिति वार्तिकादित्यास्तां तावत्।

तत्त्व-बोधिनी
बहुव्रीहौ सङ्ख्येये डजबहुगणात् ७३८, ५।४।७३

बहुव्रीहौ सङ्ख्येये। व्यत्ययेन पञ्चम्यर्थे सप्तमीत्याह---यो बहुव्रीहिस्तस्मादिति। "उपगणा"इत्यत्र डचि सत्यसति च रूपे विशेषो नास्तीत्यत आह--स्वरे विशेष इति। डचि सति "चितः" इत्यन्तोदात्तत्वं स्यात्, असति तु पूर्वपदप्रकृतिस्वर इत्यर्थः। न च सत्यपि डचि परत्वात्पूर्वपदप्रकृतिस्वर एव स्यादिति शङ्क्यमं, "चितः"इति स्वरस्य सतिशिष्टत्वात्, डचश्चित्करणस्य वैयथ्र्यापत्तेश्च।

सङ्ख्यायास्तत्पुरुषस्य वाच्यः। सङ्ख्याया इति। सङ्ख्यान्तस्य तत्पुरुषस्य चरमावयवो डज्वक्तव्य इत्यर्थः। "एकविंशति"रित्यादौ तु न भवति, "अन्यत्राधिकलोपा"दिति वार्तिककारोक्तेः।