पूर्वम्: ५।४।७४
अनन्तरम्: ५।४।७६
 
सूत्रम्
अच् प्रत्यन्ववपूर्वात् सामलोम्नः॥ ५।४।७५
काशिका-वृत्तिः
अच् प्रत्यन्ववपूर्वात् सामलोम्नः ५।४।७५

प्रति अनु अव इत्येवं पूर्वात् सामान्तात् लोमान्तात् च समासादच् प्रत्ययो भवति। प्रतिसामम्। अनुसामम्। अवसामम्। प्रतिलोमम्। अनुलोमम्। अवलोमम्। कृश्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः। गोदावर्याश्च नद्याश्च सङ्ख्याया उत्तरे यदि। कृष्णभूमः। पाण्डुभूमः। उदग्भूमः। पञ्चनदम्। पञ्चगोदावरम्। नदीभिश्च इति अव्ययीभावः। भूमेरपि सङ्ख्यापूर्वायाः अच् प्रत्यय इष्यते द्विभूमः प्रासादः। त्रिभूमः। दशभूमकं सुत्रम् अन्यत्र अपि च दृश्यते पद्मनाभः। ऊर्णनाभः। दीर्घरात्रः। समरात्रः। अरात्रः। तदेतत् सर्वम् इह योगविभागं कृत्वा साधयन्ति।
न्यासः
अच्? प्रत्यन्वपूर्वात्सामलोम्नः। , ५।४।७५

"प्रतिसामम्()" इति। प्रतिगतं साम प्रतिसामम्()। प्रादिसमासः। प्रतिगतं वा सामास्येति बहुव्रीहिः। गतशब्दो गतार्थत्वाद्वृत्तौ न प्रयुज्यते। अथ वा--साम प्रतीति यथार्थे "अव्ययं विभक्ति" २।१।६ इत्यादिनाव्ययीभावः। अनुगतं सामानेनेति बहुव्रीहिर्वा। "अवसामम्()" इति। पूर्वेण तुल्यम्()। "अनुलोमम्()" इत्यादौ पूर्वेण तुल्यम्()। "()वलोमम्()" इत्यादि पूर्ववतप्रादिसमासादयो वेदितव्याः। "कृष्णोदक्पाण्डुपूर्वायाः" इति। कृष्णोदक्पाण्डुशब्दाः पूर्वे यस्या भूमेस्तस्या अच्प्रत्ययः स्मृतः। कृष्णा भूमिरस्मिन्? देशे कृष्णभूमो देशः। उदीची भूमिरस्मिन्? देश उदग्भूमः। पाण्डुर्मूमिरस्मिन्? पाण्डुभूमः। गोदावय्र्याश्च नद्याश्चाच्प्रत्ययः स्मृतः ते चेन्नदगोदवर्यौ संख्याया उत्तरे भवतः। पञ्चानां गोदावरीणां समाहारः; "नदीभिश्च" २।१।१९ इति समाहारेऽव्ययीभावः--पञ्चगोदावरम्(), पञ्चनदम्()। "भूमेरपि" इत्यादि। न केवलं नदीगीदावरीभ्याम्(), अपि तु भूमेरपि संख्यापूर्वाया इष्यते। "द्विभूमः" इत्यादौ सर्वत्र बहुव्रीहिः। "तत्()" इत्यादि। एतत्? कृष्णभूमाद्यपि योगविभागं कृत्वाऽ‌ऽचार्याः साधयन्ति॥
बाल-मनोरमा
अच् प्रत्यन्ववपूर्वात्सामलोम्नः ९३०, ५।४।७५

अच्प्रत्ययन्वव। एतत्पूर्वादिति। प्रति-अनु-अव-एतत्पूर्वकादित्यर्थः। प्रतिसाममिति। प्रतिगतं सामेति विग्रहः। अच्। "नस्तद्धिते" इति। टिलोपः। अनुसाममिति। अनुगतं सामेति विग्रहः। अच्। टिलोपः। अवसाममिति। अवकृष्टं सामेति विग्रहः। अच्। टिलोपः। प्रतिलोममिति। प्रतिगतं लोमेति विग्रहः। अनुलोममिति। अनुगतं लोमेति विग्रहः। अवलोममिति। अवगतं लोमेति विग्रहः। सर्वात्राऽच्, टिलोपः। कृष्णोदगिति। नेदं वार्तिकं। किं त्वच्प्रत्येत्यत्र अजिति योगविबागमूलाभियुक्तोक्तिरेषा। कृष्णेति। कृष्णा भूमिर्यस्य, उदीची भूमिर्यस्य, पाण्डुर्भूमिर्यस्य, द्वे भूमी यस्य, तिरुआओ भूमयो यस्येति च विग्रहः। प्रासादः सर्वत्र विशेष्यः। सङ्ख्याया इति। इदमप्यजिति योगविभागमूलकमेव। सङ्ख्यायाः परो यो नदीशब्दो, गोदावरीशब्दश्च ताभ्यामजिष्यत इत्यर्थः। पञ्चनदमिति। पञ्चानां नदीनां समाहार इति विग्रहः। सप्तगोदावरमिति। सप्तानां गोदावरीणां समाहार इति विग्रहः। "नदीभिश्चे"त्यव्ययीभावः। अचि "यस्येति चे"ति लोपः। "नाव्ययीभावा"दित्यम्। अन्यत्रापीति। "अ"जिति सेषः। पद्मनाभ इति। पद्मं नाभौ यस्येति विग्रहः। वस्तुतस्तु यागविभागस्य भाष्येऽदर्शनात्पृषोदरादित्वमेवोचितम्।

तत्त्व-बोधिनी
अच् प्रत्यन्ववपूर्वात्समलोम्नः ८०६, ५।४।७५

प्रतिसाममिति। अव्ययीभावः, प्रादिसमासो, बहुव्रीहिर्वा। एवमनुसामादवप्यूह्रम्। कृष्णोदगिति। "अ"जिति योगविभागेन गतार्थमिदम्। एवमुत्तरवार्तिकमपि। "कृष्णभूम"इत्यादयौ बहुव्रीहयः। पद्मनाभ इति। "पद्मं नाभा वस्ये"ति विग्रहः। गड्वादित्वात्सप्तम्यन्तस्य परनिपातः। "पदमाकारा नाभिरस्ये"ति वा। एवमूर्णनाबोऽपि ज्ञेयः। तत्र तु "ङ्यापोः संज्ञाछन्दसो"रिति ह्यस्वो विशेषः।