पूर्वम्: ५।४।७८
अनन्तरम्: ५।४।८०
 
सूत्रम्
अवसमन्धेभ्यस्तमसः॥ ५।४।७९
काशिका-वृत्तिः
अवसमन्धेभ्यस् तमसः ५।४।७९

अव सम् अन्ध इत्येतेभ्यो यः परः तमस्शब्दः तदन्तात् समासातच् प्रत्ययो भवति। अवतमसम्। सन्तमसम्। अन्धतमसम्।
न्यासः
अवसमन्धेभ्यस्तमसः। , ५।४।७९

"अवतमसम्()" इति। अवहीनं तमसा, अवहीनं वा तम इति प्रादिसमासो वाऽयम्()। एवं सङ्गतं तमसा, सङ्गतं तमः--"सन्तमसम्()"। अन्धं करोतीति णिच्(), तदन्तात्(), अन्धयतीत्यन्धम्()। अन्धञ्च तत्? तमश्चेति "अन्धतमसम्()"। यदन्धं तमः करोतीति तदेवमुच्यते॥
बाल-मनोरमा
अवसमन्धेभ्यस्तमसः ९३४, ५।४।७९

अवसमन्धेभ्यस्तमसः। अव सम् अन्ध एभ्यः परो यस्तमश्शब्दस्तस्मादच्स्यादित्यर्थः। अवतमसमिति। अवहीनं तम इति विग्रहः। प्रादिसमासः। संतमसमिति। संततं तम इति विग्रहः। प्रादिसमासः। अन्धयतीत्यन्धमिति। "अन्ध दृष्ट()उपघाते" चुरादिः। दृ()ष्ट प्रतिबध्नातीत्यर्थः। पचाद्यजिति। "नन्दिग्राहिपचादिभ्यो ल्युणिन्यचः" इति पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः। अचि णिलोपेऽन्धमिति रूपम्। गाढमित्यर्थः। फलति। गाढस्यैव तमसो दर्शनप्रतिबन्धकत्वात्। अन्धतमसमिति। कर्मधारयादच्।

तत्त्व-बोधिनी
अबसमन्धेभ्यस्तमसः ८१०, ५।४।७९

अवतमसमित्यादिष अवहीनं संततं च तम इथि विग्रहः। अन्धयतीति। "अन्ध दृष्ट()उपघाते" चुरादिः। अन्धमिति। गाढमित्यर्थः।