पूर्वम्: ५।४।८४
अनन्तरम्: ५।४।८६
 
सूत्रम्
उपसर्गादध्वनः॥ ५।४।८५
काशिका-वृत्तिः
उपसर्गादध्वनः ५।४।८५

उपसर्गात् परो यो ऽध्वन्शब्दः तदन्तात् समासातच् प्रत्ययो भवति। प्रगतो ऽध्वानं प्राध्वोरथः। प्राध्वं शकटम्। निरध्वम्। प्रत्यध्वम्। उपसर्गातिति किम्? परमाध्वा। उत्तमध्वा।
लघु-सिद्धान्त-कौमुदी
उपसर्गादध्वनः ९९८, ५।४।८५

प्रगतोऽध्वानं प्राध्वो रथः॥
न्यासः
उपसर्गादध्वनः। , ५।४।८५

"प्राध्वम्()" इति। प्रादिसमामः। तत्र प्राध्वमिति "अत्यादयः क्रान्ताद्यर्थे द्वितीयया" (वा।९१) इति समासः। निष्क्रान्तमध्वन इति "निरादयः क्रान्ताद्यर्थे पञ्चम्या" (वा।९५)"अत्यध्वम्()" इति। प्राध्वमित्यनेन तुल्यमेतत्()। उपसर्गश्चात्र न गत्युपलक्षणम्()। कुत एतत्()? क्रियायोगाभावात्()॥
बाल-मनोरमा
उपसर्गादध्वनः ९३९, ५।४।८५

उपसर्गादध्वनः। उपसर्गात् परो योऽध्वन्शब्दस्तस्मादच् स्यादित्यर्थः। प्राध्वो रथ इति। "अत्यादयः" इति समासादच्। "नस्तद्धिते" इति टिलोपः।