पूर्वम्: ५।४।८५
अनन्तरम्: ५।४।८७
 
सूत्रम्
तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः॥ ५।४।८६
काशिका-वृत्तिः
तत्पुरुषस्य अङ्गुलेः सङ्ख्याऽव्ययादेः ५।४।८६

अङ्गुलिशब्दान्तस्य तत्पुरुषस्य सङ्ख्यादेः अव्ययादेश्च अच् प्रत्ययो भवति। द्वे अङ्गुली प्रमानम् अस्य द्व्यङ्गुलम्। त्र्यङ्गुलम्। तद्धितार्थ इति समासः। प्रमाणे लो द्विगोर् नित्यम् ६।२।१२ इति मात्रचो लोपः। अव्ययादेः निर्गतम् अङ्गुलिभ्यः निरङ्गुलम्। अत्यङ्गुलम्। तत्प्रुषस्य इति किम्? पञ्चाङ्गुलिः। अत्यङ्गुलिः पुरुषः। तत्पुरुषाधिकारश्च द्वन्द्वाच्चुदषहान्तातिति यावत्।
लघु-सिद्धान्त-कौमुदी
तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ९५८, ५।४।८६

संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तोऽच् स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। निर्गतमङ्गुल्यो निरङ्गुलम्॥
न्यासः
तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः। , ५।४।८६

"मात्रचो लोपः" इति। "प्रमाणे द्वयसच्()" ५।२।३७ इत्यादिना विहितस्य। "निरङ्गुलम्()" इति। निरध्वमित्यनेन तुल्यमेतत्()। "अत्यङ्गुलम्()" इति। एतदप्यत्यध्वमित्यनेन तुल्यम्()। "पञ्चाङ्गुलिः" इति बहुव्रीहिः॥
तत्त्व-बोधिनी
तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः ६८५, ५।४।८६

तत्पुरुषस्येति। अलोन्त्यविधिं बाधित्वा "प्रत्ययः" "परश्चे"ति परत्वात्तत्पुरुषस्याऽङ्गुले"रिति तु समासान्तापेक्षया अवयवषष्ठीत्याहुः। व्द्यङ्गुलमिति। "तद्धितार्थ"इति समासः। "द्विगोर्नित्य"मिति मात्रचो लोप इति वृत्तिकृत्। मनोरमायां तु द्वयसचो लुगिति स्थितम्।

अहग्र्रहणं द्वन्द्वर्थम्। द्वन्द्वार्थमिति। "अह्नो रात्रि"रिति षष्ठीतत्पुरुषस्याऽसम्भवादिति भावः। नन्वहःशब्दस्याऽहस्तुल्यतायां, रात्रिशब्दस्य वा रात्रितुल्यतायां गौणत्वसम्भवादहश्चासौ रात्रिश्चेति कर्मधारयोऽस्त्विति चेन्न। मुक्यसम्भवे गौणग्रहणाऽयोगात्। "हेमन्तशिशिरावहोरात्रे चे"त्यत्र द्वन्द्वे समासान्तदर्शनाच्च। अहोरात्र इति। "जातिरप्रणिना"मित्येकवद्भावः। "स नपुंसक"मित्येतद्बाधित्वा परत्वात् "रात्राह्नाहाः"इति पुस्त्वम्। एतेनैकवद्भावात् क्लीबतेति प्राचो ग्रन्थः परास्तः। "मासेन स्यादहोरत्रः" इत्यादिग्रन्थविरोधाच्च। सर्वरात्र इथि। "पूर्वकालैके"ति समासः। पूर्वरात्र इति। "पूर्वापराधरोत्तर"मित्येकदेशिसमासः। यदा तु रात्रिशब्दस्यैकदेसे लक्षणां स्वीकृत्य कर्मधारयोऽभ्युपगम्यते तदा पूर्वरात्रिरित्येव भवति। द्विरात्रमिति। "सङ्ख्यापूर्वं रात्रं क्लीब"मिति वक्ष्यते। अह्नष्टखोरेव। "नस्त्द्धिते"इत्येव सिद्धे नियमार्थमिदम्। एवकारस्त्वह्न एव टखयोरिति विपरीतनियमशङ्कानिरासार्थः। "आत्माध्वनौ खे"इति प्रकृतिभावविधानेन तन्निरासे प्रतिपत्तिगौरवं स्यादिति भावः। टखोरेवेति किम्()। अह्ना निर्बृत्तमाह्निकम्। "काला"दित्यधिकारे "तेन निर्वृत्त"मिति ठञ्। टिलोपाऽभावात् "अल्लोपोऽनः"इत्यकारलोपः।