पूर्वम्: ५।४।८६
अनन्तरम्: ५।४।८८
 
सूत्रम्
अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः॥ ५।४।८७
काशिका-वृत्तिः
अहःसर्वएकदेशसङ्ख्यातपुण्याच् च रात्रेः ५।४।८७

अहरादिभ्यः परो यो रात्रिशब्दः तदन्तस्य तत्पुरुषस्य अच् प्रत्ययो भवति, चकारात् सङ्ख्यादेः अव्ययादेश्च। अहर्ग्रहणं द्वन्द्वार्थम्। अहश्च रात्रिश्च अहोरात्रः। सर्वरात्रः। एकदेशे पूर्वं रात्रेः पूर्वरात्रः। अपररात्रः। पूर्वपरावर इति समासः। सङ्ख्याता रात्रिः सङ्ख्यातरात्रः। विशेषणं विशेष्येण इति समासः। एवं पुण्या रत्रिः पुण्यरात्रः। सङ्ख्याव्यायदेः खल्वपि द्वे रात्री समाहृते द्विरात्रः। त्रिरात्रः। अतिक्रान्तो रात्रिम् अतिरात्रः। नीरात्रः।
लघु-सिद्धान्त-कौमुदी
अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः ९५९, ५।४।८७

एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः। अहर्ग्रहणं द्वन्द्वार्थम्॥
न्यासः
अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः। , ५।४।८७

"अहग्र्रहणं द्वान्द्वार्थम्()" इति। इष्टिरियम्()। न तत्पुरुषार्थम्(); मुख्यार्थे तत्पुरुषस्यासम्भवात्()। द्वन्द्वार्थे पदार्थं प्रत्याश्रयः। तथा हि--यद्यहर्गुणा रात्रिरहः शब्देनीच्यते, रात्रिगुणं वाहो रात्रिशब्देन गौण्या कल्पनया, तदाहश्च रात्रिश्चेति समानाधिकरणस्तत्पुरुषः सम्भवत्येव। तस्मादिष्टिरियम्()। एतावदुक्तं स्यात्()--द्वन्द्व इष्यत इति। अत्र च ज्ञापकम्--"हेमन्तशिशिरावहोरात्रे च च्छन्दसि" २।४।२८ इति द्वन्द्वे समासन्तस्य रात्रिशब्दस्य निपातनम्()। "अहोरात्रः" इति। "रात्राह्नाहाः पुंसि" २।४।२९ इति पुंल्लिङ्गता। "अहन्()" ८।२।६८ इति "रूपरात्रिरथन्तरेषूपसंख्यानम्()" (वा। ९२४) इति नकारस्य रुत्वाद्गुणः। "सर्वरात्रः" इति। "पूर्वकालैक सर्व" २।१।४८ इत्यादिना समानाधिकरणस्तत्पुरुषः। "द्विरात्रः" इति "तद्धितार्थोत्तरपद" २।१।५० इत्यादिना समाहारे द्विगुः, "द्विगुश्च" २।१।२२ इति तत्पुरुषसंज्ञा। "अतिरात्रः" इति। अत्यध्वमित्यनेन तुल्यमेत्()। "नीरात्रः" इति। "रोरि" ८।३।१४ इति रेफलोपः। "ढ्रलोपे पूर्वस्य" ६।३।११० इति दीर्घः॥
बाल-मनोरमा
अहःसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः ७७७, ५।४।८७

अहःसर्वैकदेश। एभ्यो रात्रेरिति। अहन्, सर्व, एकदेश, सङ्ख्यात, पुण्य--एभ्यः परस्य रात्रिशब्दस्येत्यर्थः। अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत्।

ननु अहरादी रात्र्यन्तस्तत्पुरुषो नास्त्येव, अह्नो रात्रिरिति वा, अहश्चासौ रात्रिश्चेति वा, असंभवादित्यत आह-अहग्र्रहणं द्वन्द्वार्थमिति। नच ब्राहृणो यदहस्तस्यावयवभूता या मानुषीरात्रिरिति षष्ठीतत्पुरुषः संभवतीति वाच्यम्, "अहग्रहणं द्वन्द्वार्थ"मिति भाष्यप्रामाण्येन एवंजातीयकतत्पुरुषस्य प्रयोगाऽभावोन्नयनात्। अहोरात्र इति। द्वन्द्वादच्, इलोपः, "जातिरप्राणिना"मित्येकवत्त्वम्। "स नपुंसक"मिति बाधित्वा "रात्राह्नाहाः पुंसी"ति पुंस्त्वम्। सर्वा रात्रिः सर्वरात्र इति। सर्वा रात्रिरिति विग्रहे "पूर्वकालैके"ति कर्मधारयः। अच्। इकारलोपः। "रात्राह्नाहा"इति पुंस्त्वम्। "सर्वनाम्नो वृत्तिमात्रे" इति पुंवत्त्वम्। एकदेशेत्यर्थग्रहणमित्यभिप्रेत्योदाहरति--पूर्वमिति। पूर्वं रात्रेरिति विग्रहे "पूर्वपराधरोत्तर"मित्येकदेशिसमासः। अच्, इलोपः, "रात्राह्ने"ति पुंस्त्वम्। सङ्ख्यातरात्र इति। सङ्ख्याता रात्रिरिति विग्रहे कर्मधारायः। "पुंवत्कर्मधारये"ति पुंवत्त्वम्। अच्, इलोपः। "रात्राह्ने"ति पुंस्त्वम्। द्विरात्रमिति। "तद्धितार्थे"ति द्विगुः। सङ्ख्यादित्वादच्, इलोपः। "सङ्ख्यापूर्वं रात्रं क्लीब"मिति नपुंसकत्वम्। अतिरात्र इति। "अत्यादयः क्रान्ताद्यर्थे" इति समासः। अव्ययादित्वादच्, इलोपः, "रात्राह्ने"ति पुंस्त्वम्।