पूर्वम्: ५।४।८७
अनन्तरम्: ५।४।८९
 
सूत्रम्
अह्नोऽह्न एतेभ्यः॥ ५।४।८८
काशिका-वृत्तिः
अह्नो ऽह्न एतेभ्यः ५।४।८८

राजाहःसखिभ्यष् टच् ५।४।९१ इति वक्ष्यति, तस्मिन् परभूते अहनित्येतस्य अह्नः इत्ययम् आदेशो भवति एतेभ्य उत्तरस्य। सङ्ख्याव्ययादयःप्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते। सामर्थ्याच्चाहःशब्दः पूर्वत्वेन नाश्रीयते। परिशिष्टानां ग्रहणम्। न हि अहःशब्दात् परो ऽहःशब्दः सम्भवति। सङ्ख्यायास्तावत् द्व्योरह्नोर् भवः द्व्यह्नः। त्र्यह्नः। अव्ययात् अहरतिक्रान्तः अत्यह्नः। निरह्नः। सर्वाह्णः। पूर्वह्णः। अपराह्णः। सङ्ख्याताह्नः। पुण्यशब्दात् प्रतिषेधं वक्ष्यति।
न्यासः
अह्नोऽह्न एतेभ्यः। , ५।४।८८

"राजाहःसखिभ्यष्टच्? इति टच्प्रत्ययं वक्ष्यति" इति। अथ परकृत एवाचि कस्मादादेशो न विज्ञायते? अशक्यस्तत्रायं विज्ञातुम्(), न ह्रहःशब्दातात्? तत्पुरुषात्? केनचिदज्विहितः, तत्? कथमादेशस्य निमित्तं स्यात्()। अथ "अच्? (५।४।७५) इति योगविभागेनाज्विधीयते? एवमप्येतद्वचनेमनर्थकं स्यात्(); अचि कृते "अल्लोऽपोनः" ६।४।१३४ इत्यनेनाह्नादेशस्य सिद्धत्वात्()। न च टिलोपः प्राप्नोतीति मन्तव्यम्(); "अह्नष्टखोरेव" ६।४।१३४ इति नियमात्()। तस्मादच्येव टिलोपापवादोऽयम्()। आदेशोऽयमयुक्तः। किं पुनस्तत्? सामथ्र्यम्(), यतोऽहःशब्दः पूर्वत्वेन नाश्रीयते? इत्याह--"न ह्रहःशब्दात्()"--इत्यादि। "द्व्यह्नः" इति। द्वयोरह्नोर्भव इति "तदधितार्थ" २।१।५० इत्यादिना समासः, "तत्र भवः ४।३।५३ इत्यण्(), तस्य "द्विगोर्लुगनपत्ये" ४।१।८८ इति लुक्()। "आत्यह्नः" इति। अत्यध्ववत्समासः। "निरह्नः" इति। अत्रापि निरध्ववत्? समासः। "सर्वाह्णः" इति। विशेषणसमासः। प्रतिषेधं वक्ष्यतीति। "उत्तर्मकाभ्याञ्च" ५।४।९० इति॥
बाल-मनोरमा
अह्नोऽह्न एतेभ्यः ७८०, ५।४।८८

अह्नोऽह्न एतेब्यः। पूर्वसूत्रे अहःसर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे। अहन्शब्दवर्जं ते सर्वे एतच्छब्देन परामृश्यन्ते, नत्वहःशब्दः, अहःशब्दात्परस्य अहन्शब्दस्य तत्पुरुषे असंभवादित्यभिप्रेत्य व्याचष्टे-सर्वादिभ्य इति। समासान्ते पर इति। एतत्तु प्रकरणाल्लब्धम्।

तत्त्व-बोधिनी
अह्नोऽह्न एतेभ्यः ६८७, ५।४।८८

अह्नोऽह्न एतेभ्यः। एतच्छब्देन "अहःसर्वैकदेश---"इति सूत्रस्थाः परामृश्यन्ते। सूत्रे तु तस्मिन्नहरादयो निर्दिष्टाश्चकारेण च सङ्ख्याव्यये अनुकष्टे। तत्र बुद्धिस्थत्वाऽविशेषेऽप्यहःशब्द इह न गृह्रते, असंभवादित्यशयेनाह---सर्वादिभ्यैति। समासान्ते पर इति। एतच्च प्रकारणाल्लब्धम्। भाष्ये तु अह्नादेशः प्रत्याख्यातः, "अह्न एभ्योऽच्स्याट्ट्चोऽपवादः" इति व्याख्यायाम्, "अह्नष्टखोरेवे ति नियमाट्टिलोपाऽभावे "अल्लोपोऽनः" इत्यकारलोपात्सर्वाह्न इत्यादिरूपसिद्धेः।