पूर्वम्: ५।४।८
अनन्तरम्: ५।४।१०
 
सूत्रम्
जात्यन्ताच्छ बन्धुनि॥ ५।४।९
काशिका-वृत्तिः
जात्यन्ताच् छ बन्धुनि ५।४।९

जात्यन्तात् प्रातिपदिकात् बन्धुनि वर्तमानात् स्वार्थे छः प्रत्ययो भवति। बध्यते ऽस्मिञ् जातिः इति बन्धुशब्देन द्रव्यम् उच्यते। येन ब्राह्मणत्वादिजातिर् व्यज्यते तद्बन्धु द्रव्यम्। ब्राह्मणमातीयः, क्षत्रियजातीयः, वैश्यजातीयः इति ब्राह्मणादिरेव उच्यते। बन्धुनि इति किम्? ब्राह्मणजातिः शोभना।
न्यासः
जात्यन्ताच्छ बन्धुनि। , ५।४।९

बाल-मनोरमा
जात्यन्ताच्छ बन्धुनि , ५।४।९

जात्यन्ताच्छ बन्धुनि। छेति लुप्तप्रथमाकम्। जातिशब्दान्तात्प्रातिपदिकाद्बन्धुनि वर्तमानात्स्वार्थे छप्रत्ययः स्यादित्यर्थः। बन्धुशब्दो द्रव्यवाचीति वक्ष्यति। तथाच बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षकादिति फलितम्। ब्राआहृणजातीय इति। ब्राआहृणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः। ब्राआहृणजातिः शोभनेति। ब्राआहृणत्वजातिरित्यर्थः। बद्यते ब्राआहृणत्वादिजातिव्र्यज्यतेऽस्मिन्निति बन्धु=द्रव्यम्। "शृ()स्वृस्निही"त्यादिनाऽधिकरणे उप्रत्ययः। तदाह--जातेव्र्यञ्जकं द्रव्यं बन्ध्विति। आप्तपर्यायस्तु बन्धुशब्दो नेह गृह्रते, "बन्धुनी"ति नपुंसकनिर्देशादिति भावः।

तत्त्व-बोधिनी
जात्यन्ताच्छ बन्धुनि १५४९, ५।४।९

ब्राआहृणजातीय इति। द्व्येकयोरितिवद्भावप्रधानो ब्राआहृणशब्दः, तस्य जातिशब्देन सह बहुव्रीहिः। ब्राआहृणत्वजात्याधारभूतः पिण्ड इत्यर्थः। ब्राआहृणजातीरिति। षष्ठीतत्पुरुषः। भावप्रधानेन सह कर्मधारयो वा। जातेव्र्यञ्जकमिति। बद्यते जातिरस्मिन्निति बन्धु[#ः]। "शृ()स्वृस्निहि"इत्यादिना अधिकरणे उप्रत्ययः। रूढोऽपि बन्धुशब्दाअप्चपर्यायः पुंलिङ्गोऽस्ति, तथापि स नेह गृह्रते, "बन्धुनी"ति नपुंसकनिर्देषादिति भावः। "सस्थानेने"त्यस्यैव व्याख्यानं---तुल्येनेति।