पूर्वम्: ५।४।९०
अनन्तरम्: ५।४।९२
 
सूत्रम्
राजाऽहस्सखिभ्यष्टच्॥ ५।४।९१
काशिका-वृत्तिः
राजाहःसखिभ्यष् टच् ५।४।९१

राजनहन् सखि इत्येवम् अन्तात् प्रातिपदिकात् टच् प्रत्ययो भवति। महाराजः। मद्रराजः। परमाहः। उत्तमाहः। राज्ञः सखा राजसखः। ब्राह्मणसखः। इह कस्मान् न भवति, मद्राणाम् राज्ञी मद्रराज्ञी? लिङ्गविशिष्टपरिभाषया प्राप्नोति? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद् ज्ञापयति यस्य अकारेण सवर्णदीर्घत्वं सम्भवति तस्य इदं ग्रहणम् इति।
लघु-सिद्धान्त-कौमुदी
राजाहः सखिभ्यष्टच् ९६१, ५।४।९१

एतदन्तात्तत्पुरुषाट्टच् स्यात्। परमराजः॥
न्यासः
राजाहस्सखिभ्यष्टच्?। , ५।४।९१

"परमाहः, उत्तमाहः" इति "सन्महत्()" २।१।६० इत्यादिना कर्मधारयः। "मद्रराजः" इति। षष्ठीतत्पुरुषः। कथं पुना राजशब्दग्रहणे राज्ञीशब्दस्य प्राप्नोति? इत्यत आह--"लिङ्गविष्टिपरिभाषया" इत्यीदि। "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति" (व्या।प।२९) इत्येवा लिङ्गविशिष्टपरिभाषा। "लध्वक्षरस्य" इति। सवर्णदीर्घोऽर्थः प्रयोजनं यस्य प्रथमप्रयोगसर्य स तथोक्तः। अत्रह लध्वक्षरं पूर्व निपततीति सख्युरह्नो वा पूर्वानिपाते प्राप्ते योऽहशब्दस्य परनिपातः स राजशब्दस्य सवर्णदीर्धार्थः। प्रयोगस्तु क्वचिन्नैतज्ज्ञापयति--अकारवत एव राजशब्दाट्टज्? भवति। ईकारान्तान्न, ईकारस्याकारेण सवर्णदोर्घान्तस्या सम्भवात्()॥
बाल-मनोरमा
राजाहःसखिभ्यष्टच् ७७८, ५।४।९१

राजाहःसखिभ्यष्टच्। "तत्पुरुषस्याङ्गुलेः" इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतं "राजाहःसखिभ्यः" इत्यनेन विशेष्यते। तदन्तविधिः। तदाह--एतदन्तादिति। परमराज इति। परमश्चासौ राजा चेति विग्रहः। "अत्यादयः" इति समासः। टचि टिलोपः। कृष्णसख इति। कृष्णस्य सखेति विग्रहः। समासान्तष्टच्। "यस्येति चे"ति इकारलोपः।