पूर्वम्: ६।१।९
अनन्तरम्: ६।१।११
 
सूत्रम्
श्लौ॥ ६।१।१०
काशिका-वृत्तिः
श्लौ ६।१।१०

श्लौ परतः अनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितियस्य वा यथायोगं द्वे भवतः। जुहोति। बिभेति। जिह्नेति।
लघु-सिद्धान्त-कौमुदी
श्लौ ६०८, ६।१।१०

धातोर्द्वे स्तः। जुहोति। जुहुतः।
न्यासः
श्लौ। , ६।१।१०

"श्लौ परतः" इति। ननु च प्रत्ययादर्शननं श्लुः, तच्चाभावरूपम्(), न चाभावे पौर्वापर्यमस्ति, तदुयुक्तमुक्तम्? श्लौ परत इति? स्थानिनः परत्त्वात्त्स्यापि तद्()द्वारेण पौर्वापर्यमौपचारिकं गृहीत्वैव युक्तमुक्तमित्यदोषः॥
बाल-मनोरमा
श्लौ ३२०, ६।१।१०

शेषं पूरयति--धातोद्र्वे स्त इति। "एकाचो द्वे"इत्यतो "लिटि धातो"इत्यतश्च तदनुवृत्तेरिति भावः। द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह--जुहोतीति। यणिति। उवङपवाद इत्यर्थः।