पूर्वम्: ६।१।९६
अनन्तरम्: ६।१।९८
 
प्रथमावृत्तिः

सूत्रम्॥ अकः सवर्णे दीर्घः॥ ६।१।९७

पदच्छेदः॥ अकः ५।१ १०३ सवर्णे ७।१ दीर्घः १।१ १०२ अचि ७।१ ९६ एकः १।१ ८१ पूर्वपरयोः ६।१ ८१ संहितायाम् ७।१ ७०

अर्थः॥

अकः उत्तरस्य सवर्णे अचि परतः पूर्वपरयोः स्थाने दीर्घः एकादेशः भवति, संहितायां विषये

उदाहरणम्॥

दण्ड + अग्रम् = दण्डाग्रम्, दधीन्द्रः, मधूदके, होतृ + ऋश्यः = होतॄश्यः
काशिका-वृत्तिः
अकः सवर्णे दीर्घः ६।१।१०१

अकः सवर्णे अचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति। दण्डाग्रम्। दधीन्द्रः। मधूदके। होतृ̄श्यः। अकः इति किम्? अग्नये। सवर्ने इति किम्? दध्यत्र। अचि इत्येव, कुमारी शेते। नाज्झलौ १।१।१० इत्यत्र यतचिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्य अनभिनिर्वृत्तत्वात् सवर्णा न गृह्यन्त इति सवर्नत्वमीकारशकारयोरप्रतिषिद्धम्। सवर्णदीर्घत्वे ऋति ऋ वा वचनम्। ऋति सवर्णे परभूते तत्र ऋ वा भवति इति वक्तव्यम्। होतृ ऋकारः होतृकारः। यदा न ऋ तदा दीर्घ एव होतृ̄कारः। लृति लृ वा वक्तव्यम् ल्ट्ति सवर्णे परतो लृ वा भवति इति वक्तव्यम्। होतृ लृकारः होत्लृकारः। होतृ̄कारः। ऋकारलृकारयोः सवर्णासंज्ञाविधिरुक्तः। दीर्घपक्षे तु समुदायान्तरतमस्य लृवर्णस्य दीर्घस्य अभावातृकारः क्रियते।
लघु-सिद्धान्त-कौमुदी
अकः सवर्णे दीर्घः ४२, ६।१।९७

अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारः। श्रीशिः। विष्णूदयः। होतॄकारः॥
बाल-मनोरमा
अकः सवर्णे दीर्घः ८५, ६।१।९७

अकः सवर्णे। "अक" इति पञ्चमी। "इको यणची"त्यतोऽचीत्यनुवर्तते। "एकः पूर्वपरयो"रित्यधिकृतम्। तदाह-अकः सवर्णेऽचीत्यादिना। दैत्यारिरिति। दैत्य-अरिरिति स्थिते द्वयोरकारयोरेको दीर्घ आकारः, स्थानसाम्यात्। श्री-ईश इति स्थिते ईकारयोरेक ईकारः। विष्णु-उदय इति स्थिते उकारयोरूकारः।?त्राचीत्यनुवृत्तेः किं प्रयोजनमिति पृच्छति-अचि किमिति। कुमारी शेत इति। "अची"त्यननुवृत्तावीकारस्य शकारस्य च तालुस्थानविवृतप्रयत्नसाम्येन सवर्णतया तयोर्दीर्घ ईकार एकादेशः स्यात्। तन्निवृत्त्यर्थमचीत्यनुवर्तनीयमिति भावः। ननु ईकारशकारयोः स्थानप्रयत्नसाम्येऽपि न सावण्र्यं, "नाज्झला"विति निषेर्थात्। अतः "कुमारी शेते" इत्यत्र "अकःसवर्ण" इत्यस्याऽप्रसक्तेरचीत्यनुवृत्तिव्र्यर्थैवेत्यत आह--नाज्झलावितीति। नाज्झलाविति सावण्र्यनिषेधो वार्णसमाम्नायिकानामेव, नतु दीर्घप्लुतानामपि, "आदिरन्त्येन सहेते"त्यनेन वार्णसमाम्नायिकानामेवाऽच्शब्दवाच्यत्वावगमात्। अत ईकारशकारयोः सावण्र्यसत्त्वात्कुमारी शेत इत्यत्रातिप्रसङ्गः स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थः। ननु वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अच्()शब्दोपस्थितैरकारादिभिह्र्यस्वदीर्घप्लुतानामपि ग्रहणं भवति, अणुदित्सूत्रबलात्। अत ईकारशकारयोर्न सावण्र्यप्रसक्तिरित्यजनुवृत्तिव्र्यर्थैवेत्यत आह--ग्रहणकेति। अणुदित्सवर्णस्येति ग्रहणकसूत्रं हि लब्धात्मकमेव सत् "अस्य च्वौ" इत्यादौ प्रवृत्तिमर्हति। नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रमिदं न लब्धात्मकं। तद्धि सवर्णपदघटितत्वात्सवर्णपदार्थावगमोत्तरमेव लब्धात्मकम्। सवर्णसंज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्यत्रैव पर्यवसानं लब्ध्वा स्वकार्यक्षमतामश्नुते। उक्तं च --"प्रकल्प्यापवादविषयमुत्सर्गोऽभिनिविशते" इति। एवं चाऽणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकतया नाज्झलावित्यत्राऽज्ग्रहणेन दीर्घप्लुतानां ग्रहणाऽभावेन ईकारशकारयोः सावण्र्यनिषेधाऽभावेन सावण्र्यसत्त्वात्कुमारी शेत इत्यत्राऽकः सवर्ण इति प्राप्तौ तन्निवृत्त्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थः। तदेतन्नाज्झलाविति सावण्र्यनिषेधो यद्यपीति ग्रन्थव्याख्यावसरे प्रपञ्चितम्। अकोऽकि दीर्घ इत्येव सुवचमिति। एवंच सवर्णग्रहणं न कर्तव्यमिति लाघवम्। दध्युकार इत्यत्र तु यथासंख्याश्रयणान्नातिप्रसङ्गः। ततश्च अचीत्यनुवृत्तिरपि नाश्रयणीयेति भावः।

"ऋति ऋ वा" इति वार्तिकमकः सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति--ऋति सवर्णे ऋ वा। अक इत्यनुवर्तते। एकः पूर्वपरयोरिति च। अकः सवर्णे ऋति परे पूर्वपरयोरृइत्येकादेशः स्यादित्यर्थः। होतृकार इति। होतृ-ऋकार इति स्थितेऽनेन द्वयोरृकारयोः स्थाने ऋकारविलक्षणो नृसिंहवद्()द्व्यन्तरात्मा ऋकारो रेफद्वयवान् कश्चिद्वर्णो भवति। एतदभावपक्षे रूपं दर्शयति--होतृ()कार इति। "अकः सवर्ण" इति दीर्घः।

लृति सवर्णे लृ वा। अकः सवर्णे लृति परे पूर्वपरयोर्लृ इत्येकादेशो वा स्यादित्यर्थः। होत्लृकार इति। होतृ-लृकार इति स्थिते ऋकारस्य लृकारस्य च स्थाने नृसिंहपद्()द्व्यन्तरात्मा लृकारो द्विलकारवान् कश्चिद्वर्णो भवति। पक्ष इति। उक्तद्व्यन्तरात्मकवर्णाऽभावपक्षे ऋकारस् लृकारस्य च स्थानेऽकः सवर्ण इति दीर्घो भवन्नृलृवर्णयोरिति सावण्र्यादृ()कार एव भवति, लृकारस्य दीर्घाऽभावादिति भावः। अत एव होतृ-लृकार इत्यत्र सवर्णदीर्घपक्षे होतृ()कार इत्येवोदाह्मतं भाष्ये। अथ "ऋति ऋ वा" "लृति लृ वे"त्यत्र विधेयवर्णस्वरूपं विविनक्ति--उभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति। तदेवोपपादयति--आद्यस्य मध्य इति। एका मात्रेति। व्यञ्जनानामर्धमात्रतया एकैकस्य रेफस्य अर्धमात्रत्वादिति भावः। अभितोऽज्भक्तेरिति। "अभित" इत्यनन्तरं "रेफा"विति शेषः। "अज्भक्ते"रिति सामान्याभिप्रायमेकवचनम्। रेफद्वयस्य पुरस्तादुपरिष्टाच्च विद्यमानयोह्र्यस्वऋकारांशयोरन्या मात्रेत्यर्थः। द्वितीयस्य इति। "विधेयस्ये"ति शेषः। शेषं प्राग्वदिति। लकारयोरेका मात्रा, तावभितो विद्यमानयोर्लृकारांशयोरन्या मात्रेत्यर्थः। एतच्च तुल्यास्यसूत्रे भाष्यकैयटयोः स्पष्टम्। एतेन दीर्घे प्राप्ते ह्यस्व ऋकारो लृकारश्चात्र विधीयत इति प्राचीनग्रन्थः परास्तः। पाक्षिक इति। वैकल्पिक इत्यर्थः। प्रकृतिभाव इति। निर्विकारस्वरूपेणावस्थानमित्यर्थः। सन्ध्यभाव इति यावत्।

तत्त्व-बोधिनी
अकः सवर्णे दीर्घः ६९, ६।१।९७

नाज्झलावित्यादि। अयं भावः--विधेयभेदे वाक्यभेदात्संभवन्त्यामेंकवाक्यतायां तदयोगात् "तुल्यास्यप्रयत्न"मित्यस्य "नाज्झलौ" इत्यस्य च एकवाक्यत्वलाभाय "अज्झल्भिन्नं सवर्ण"मित्यर्थोऽभ्युपेयते। "अज्झल्भिन्न"मित्यत्र परस्परनिरूपिततुस्यत्वविशिष्टास्यप्रयत्नकौ यावज्झलौ, तदुभयभिन्नत्वं विवक्षितम्। तथाच "यो ह्यस्वदीर्घात्मको वर्णो येन वर्णेन तादृशेन तुल्यास्यप्रयत्नस्तदुभयं मिथः सवर्णं भवति", तथा "येन हला तुस्यास्यप्रयत्नकं यद्धल्, तदुभयंमिथः सवर्णं स्यात्", "यश्च दीर्घप्लुतात्मको वर्णो येन हला तुल्यास्यप्रयत्नस्तदुभयमपि मिथः सवर्ण"मित्यर्थः फलितः। ततश्चानेन सूत्रद्वयेन सवर्णसंज्ञायां सिद्धायाम् "अणुदित्सवर्णस्ये"ति ग्राहकशास्त्रं प्रवर्तते, ननु ततः प्राक्। अतो "नाज्झलौ" इत्यनेन आक्षरसमाम्नायिकानामेव सावण्र्यं व्युदस्यते, नतु सर्वेषाम्। तेनात्र दीर्घशकारयोः सावण्र्यमस्त्येवेति तद्वारणाय "अकः सवर्णे" इत्यात्राऽचीत्यनुवर्तनं युक्तमिदम्। यदा तूष्मणामीषद्विधृतत्वं परिकल्प्य "नाज्झलौ" इति सूत्रं प्रत्याख्यायते, तदेह सवर्णसूत्रे "अची"ति नानुवर्तनीयम्। "हे पिषासो इत्यादौ गुरोरनृतः-"इत्याकारस्य प्लुते कृते ततः परस्य सस्य इणः परत्वेन षत्वं स्यात्, "नाज्झलौ" इत्यत्राकारप्रश्लेषेण दीर्घहकारयोः सावण्र्याऽभावेऽपि प्लुताकारस्य हकारसवर्णत्वेनेण्त्वादित्याशङ्क्य तत्समाधानार्थमाश्च आश्चेति द्वन्द्वं कृत्वा सवर्णदीर्घेण दीर्घात्परत्र प्लुतोऽपि प्रश्लिष्यत इति क्लिष्टव्याख्यानमपि नाश्रयणीयम्। वि()आपाभिरित्यादौ ढत्वादेरप्यप्रसक्तिः। स्वराणामूष्माणां च प्रयत्नभेदेन सावण्र्याऽभावादिति सुगमोऽयं पन्थाः। अकोऽकीत्येवेति। "अकोऽकि दीर्घः" इत्येवेत्यर्थः। सुवचमिति। यथासङ्ख्यसंबन्धेन "दध्यत्रे"त्यादावतिप्रसङ्गाऽभावात् , "ऋ"इति तिं()रशतः संज्ञेत्युक्तत्वात् "होतृ-लृकार" इत्यत्र ऋकारस्य ऋकारपरत्वमस्त्येवेत्यप्रसङ्गाभावादीकारशकारयोः सावण्र्ये सत्यप्यचीत्यनुवर्तनं विनैव समीहीतिरूपसिद्धेश्चेति भावः। "ऋति ऋ वा" लृति लृ वे"ति वार्तिकं सूत्रस्थेन सवर्णपदेन योजयित्वा पठति।

ऋति सवर्ण इत्यादि। नन्वेवम् "अकः सवर्णे-" इति सवर्णपदाऽकरणे वार्तिकयोः सवर्णग्रहणं कर्तव्यम्, सूत्रे तु "अकोऽकी"ति कर्तव्यमिति विपरीतगौरवात्कथम् "अकोऽकीत्येव सुवच"मित्युक्तमिति चेदत्राहुः--भाष्यकारैरेतद्वार्तिकद्वयस्य प्रत्याख्यानान्नास्त्येव गौरवमिति। प्रत्याश्याने तूपपर्त्तिर्लृकारान्तेषु विचारयिष्यते।

वर्णद्वयं द्विमात्रमिति। एतेन "दीर्घे प्राप्ते ह्यस्वलृकारश्च विधीयते" इति प्राचो व्याख्यानमाकरविरुद्धमिति ध्वनितम्।