पूर्वम्: ६।१।९९
अनन्तरम्: ६।१।१०१
 
सूत्रम्
नादिचि॥ ६।१।१००
काशिका-वृत्तिः
नादिचि ६।१।१०४

अवर्णातिचि पूर्वसवर्णदीर्घो न भवति। वृक्षौ। प्लक्षौ खट्वे। कुण्डे। आतिति किम्? अग्नी। इचि इति किम्? वृक्षाः।
लघु-सिद्धान्त-कौमुदी
नादिचि १२७, ६।१।१००

आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥
न्यासः
नादिचि। , ६।१।१००

"खट्वे" इति। "औङ आपः" ७।१।१८ इति शीभावः। "कुण्डे" इति। अत्रापि "नपुंसकाच्च" ७।१।१९ इति, तत्र कृते "आद्गुणः" ६।१।८४ इति गुणः॥
बाल-मनोरमा
नादिचि १६४, ६।१।१००

नादिचि। न-आदिति छेदः। आदिति पञ्चमी। पूर्वसवर्ण इत्यनुवर्तते। तदाह--अवर्णादिति। अनेन शिव--उ इत्यत्र पूर्वसवर्णदीर्घनिषेधः। आद्गुण इति। शिव उ इति स्थिते आद्गुणे इति गुणं बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मिन्निषिद्धे सति बाधके निवृत्ते गुणः पुनरुन्मिषति। "देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्मज्जन"मिति न्यायस्तु नात्र प्रवर्तते। देवदत्ते हते सति तद्धन्तुर्हने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थः। देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य उन्मेषोऽस्त्येव। प्रकृते च पूर्वसवर्णदीर्घेण गुणो न हतः। किन्तु हननोद्यम सजातीयं प्रसक्तिमात्रं पूर्वसवर्णदीर्घस्य स्थितम्। प्रसक्ते च तस्मिन्निषदे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैयटे स्पष्टम्। "अपवादे निषिद्दे उत्सर्गस्य स्थितिः" इति न्यायश्च एतन्मूलक एव। "तौ सत्" "भिद्योद्ध्यौ नदे" इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम्। एङः पदान्तादतीति। शिवो-अच्र्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूपमोकारः। देवा अत्रेति। देवास्-अत्रेति स्थिते, सस्य रुः तस्य दीर्घादाकारात्परत्वादतः परत्वाऽभावादुत्वं न,--किन्तु "भोभगो" इति यत्वे, लोपः शाकल्यस्ये"ति [यकार]लोपः। ()आ आगन्तेति। ()आस्-आगन्तेति स्थिते सस्य रुः। तस्य ह्यस्वाकारपरकत्वाऽभावादुत्वं न, किन्तु--यत्वं, लोपश्च। एहीति। सुरुआओत३र्--अत्रेति स्थिते प्लुतात्परस्य रोरुत्वनिवृत्तये अप्लुतादिति पदमित्यर्थः। नन्वत्र रोरतः परत्वाभावादेव उत्वनिवृत्तिसिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह--प्लुतस्यासिद्धत्वादिति। उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परोऽयं रुः। अतस्तस्य उत्वे प्राप्ते तन्निवृत्त्यर्थमप्लुतादित्यावश्यकमित्यर्थः। नन्वप्लुतादित्युक्ते।ञपि रोरुत्वमत्र दुर्वारम्, उत्वे कर्तव्ये प्लुतस्यासिद्धतया अप्लुतात्परत्वस्यापि सत्त्वादित्यत आह--प्लुतादितीति। विशेषणे तु तत्सामथ्र्यान्नासिद्धत्वमिति। यदि उत्वे कर्तव्ये प्लुतस्यासिद्धत्वं, तर्हि अप्लुतादिति विशेषणं व्यर्थमेव स्यात्। दत्तेऽपि विसेषणे प्लुतस्यासिद्धतयाऽप्लुतात्परत्वस्यापि सत्त्वेन उत्लप्राप्तिदोषतादवस्थ्यात्। अतोऽप्लुतादिति विशेषणसामथ्र्यात्प्लुतस्य नाऽसिद्धत्वमिति विज्ञायते इत्यर्थः। नन्वेवमपि अप्लुतादिति व्यर्थं, "प्लुतात् परस्य रोरत" इति तपरकरणादेव उत्वनिवृत्तिसिद्धेः। नच उत्वे कर्तव्ये प्लुतस्याऽसिद्धत्वादतः परत्वस्यापि सत्त्वादुत्वं स्यादिति वाच्यं; तपरकरणसामथ्र्यादेव प्लुतस्याऽसिद्धत्वाऽबावविज्ञानेन अतः परत्वाभावेनैव उत्वनिवृत्तेः सम्भवादित्यत आह--तपरकरणस्येति। "प्लुतस्यासिद्धत्वाऽभावसाधने" इति शेषः। कुत एतदत आह--दीर्घनिवृत्त्येति। "देवा-अत्रे"त्यादौ दीर्घव्यावृत्त्या लब्धप्रयोजनकत्वादित्यर्थः। येन विना यदनुपपन्नं तत्तस्य गमकम्। यथा दिवा अभुञ्जानस्य पीनत्वं रात्रिभोजनं विना अनुपपद्यमानं रात्रिभोजनस्य गमकम्। प्रकृते तु प्लुतस्यासिद्धत्वेऽपि "अत" इति तपरकरणं "देवा अत्रे"त्यादौ दीर्घव्यावृत्तिरूपं प्रयोजनं लब्ध्वा उपपद्यमानं सत्कथं प्लुतस्यासिद्धत्वाऽभावं गमयितुं शक्नुयादिति भावः। तिष्ठतु पय आ३ग्निदत्तेति। अत्र पयस् इति स्थिते, सस्य रुः, तस्य प्लुतपरकत्वादुत्वं न। ननु दूराद्धूते चेति वाक्यस्य टेः प्लुतविधानात् कथमिह अग्निदत्तशब्दे आद्यवर्णस्य प्लुत इत्यत आह--गुरोरिति।

तत्त्व-बोधिनी
नादिचि १३५, ६।१।१००

तद्धि "नादिची"ति पूर्वसवर्णदीर्घे निषिद्धे पुनरुत्सर्गस्य वृद्धेः प्रवृत्त्यैव सिध्यति नान्यथेति। नन्वेवं "नान्तःपादमव्यपरे" इति पाठे "सुजाते अ()आसूनृते" "उपप्रयन्तो अध्वर"मित्यादौ "एङः पदान्तादती"ति पूर्वरूपमेव हि तेन निषिध्येत, त()स्मश्च निषिद्धे "एचोऽडयवायावः" इत्युत्सर्गोऽपि प्रवर्तेत।मैवम् ; बाधके निषिद्धे बाध्यमपि क्वचिन्नेति स्वीकारात्तत्सिद्धेः।