पूर्वम्: ६।१।१००
अनन्तरम्: ६।१।१०२
 
सूत्रम्
दीर्घाज्जसि च॥ ६।१।१०१
काशिका-वृत्तिः
दीर्घाज् जसि च ६।१।१०५

दीर्घात् जसि इचि च परतः पूर्वसवर्णदीर्घः न भवति। कुमार्यौ। कुमार्यः। ब्रह्मबन्ध्वौ। ब्रह्मबन्ध्वः।
लघु-सिद्धान्त-कौमुदी
दीर्घाज्जसि च १६२, ६।१।१०१

दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात्। विश्वपौ। विश्वपाः। हे विश्वपाः। विश्वपाम्। विश्वपौ॥
लघु-सिद्धान्त-कौमुदी
दीर्घाज्जसि च १९४, ६।१।१०१

पप्यौ २। पप्यः। हे पपीः। पपीम्। पपीन्। पप्या। पपीभ्याम् ३। पपीभिः। पप्ये। पपीभ्यः २। पप्यः २। पप्योः। दीर्घत्वान्न नुट्, पप्याम्। ङौ तु सवर्णदीर्घः, पपी। पप्योः। पपीषु। एवं वातप्रम्यादयः॥ बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी॥
न्यासः
दीर्घाज्जसि च। , ६।१।१०१

"आत्()" इति नानुवत्र्तते, तेनाऽयं दीर्घामात्रात्? पूर्वसवर्णस्य प्रतिषेधः। अथ खट्वा इत्यत्र कथं "प्रथमयोः पूर्वसवर्णः" (६।१।१०२) इति दीर्घत्वम्()? दीर्घादिति वचनं स्पष्टार्थम्()। ननु चासति तस्मिन्? वृक्षा इत्यत्रापि स्यात्()? नैतदस्ति; यदि ह्रत्रापि स्यात्(), तदा पूर्वसत्रे "इचि" इत्येतदपार्थकं स्यात्()। इह तर्हि स्यात्--अग्नये इति? इष्टत्वाददोषः। अत्र हि परत्वात्? "जसि च" ७।३।१०९ इति गुण एव भवति। उत्तरार्थ तर्हि स्यात्()--"वा छन्दसि" (६।१।१०६) इति दीर्घाद्यथा स्यात्()? नैतदस्ति; वाग्रहणस्य तत्र व्यवस्थितविभाषाविज्ञानात्()--दीर्घादेव भविष्यति न ह्यस्वात्()। "जसि च" ७।३।१०९ इत्येतदपि स्पष्टार्थमेव। ननु चासति "जसि च" इत्येतस्मिन्? युवतीः पश्य, पद्धतीः पश्येत्यादौ शस्यपि प्रतिषेधः स्यात्()? ज्ञापकान्न भविष्यति, यदयं "तस्माच्छसो नः पुंसि" ६।१।९९ इति पुंग्रहणं करोति, तज्ज्ञापयति--शसि प्रतिषेधो न भवतीति। तद्धि नपुंसके पूर्वसवर्णदीर्घत्वासम्भवात्? स्त्रीनिवृत्त्यर्थमेव क्रियते। यदि च स्तिरियामप्ययं युवतीः पश्येत्यादौ प्रतिषेधः स्यात्(), तदा पूर्वसवर्णदीर्घत्वाभावान्नत्वस्य प्रतिप्तिरेव नास्तीति किं पुंग्रहणेन? उत्तरार्थं तर्हि जस्ग्रहणम्()? नैतदस्ति; वाग्रहणस्य तत्र व्यवस्थितविभाषात्वविज्ञानादेव जसोऽन्यत्र न भविष्यति॥
बाल-मनोरमा
दीर्घाज्जसि च २३७, ६।१।१०१

दीर्घाज्जसि च। "प्रथमयोः" इत्यतः "पूर्वसवर्ण" इति "नादिची"त्यतो "ने"ति "इची"ति चानुवर्तते। तदाह दीर्घादित्यादिना। नन्विदं सूत्रं व्यर्थं, "नादिची"त्येव सिद्धेरिति शङ्कते-यद्यपीहेति। ननु जसि वि()आपा-असिति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिदं सूत्रमावश्यकं, तत्र "नादिची"त्यस्याऽप्रवृत्तेरित्यत आह-जसि त्विति। माऽस्तु पूर्वसवर्णदीर्घनिषेधः। पूर्वसवर्णदीर्घे सत्यपि जसि "वि()आपाः" इति सिध्यति। तन्निषेधे सत्यपि "अकः सवर्णे दीर्घः" इति कृते।ञपि "वि()आपाः" इत्येवं रूपं सिध्यति। अतः किं तन्निषेधेनेत्यर्थः। परिहरति--तथापीति। इत्यादीति। आदिना लक्ष्म्यावित्यादिसङ्ग्रहः। तत्र "नादिची"त्यस्याऽप्रसक्त्या तन्निषेध आवश्यक इति भावः। ननु दीर्घाज्जसि चे"ति सूत्रं यदि "गोर्यौ" इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरीशब्दनिरूपणावसर एव तदुपन्यासो युक्तं इत्यत आह-इहापीति। वि()आपावित्यत्र "नादिची"त्यस्य "दीर्घाज्जसि चे"त्यस्य च प्राप्तौ परत्वेन "दीर्घाज्जसि चे"त्यस्यैवोपन्यासौचित्यादित्यर्थः। "अमि पूर्वः"। वि()आपाम्।

तत्त्व-बोधिनी
दीर्घाज्जसि च २०१, ६।१।१०१

दीर्घाज्जसि च। चकारादिचीत्यनुकृष्यते, नेति चानुवर्तते, तदाह-दीर्घाज्जसि इचि चेति। सूत्रे चकाराऽभावे ह्यस्वाऽकारादिचि दीर्घाकारात्तु जसीति व्यवस्था संभाव्येतेति भावः। इत्याद्यर्थमिति।

ननु "यू स्त्र्याख्यौ" "ल्वादिभ्यः" इति निर्देशादिक्प्रत्याहाराऽच्प्रत्याहारयोरेव निरूढलक्षणेति व्याख्यायतां, तथाच दीर्घस्याऽच्त्वाऽभावाद्गौर्यावित्यादौ पूर्वसवर्णदीर्घो न प्राप्नोतीति किमनेन निषेधसूत्रेणेति चेन्मैवम्, अस्मादेव निषेधाज्ज्ञापकादिगज्भिन्नेष्वपि प्रत्याहरेषु लक्षणा स्वीक्रियते। अन्यथा "गौरी"रित्यादौ शसि परतः पूर्वसवर्णदीर्घो न स्यात्। किंच "उपार्छती"त्यादौ "उरण्रपरः," "नैषादकर्षुकः" इत्यादौ "इसुसु"गिति ठस्य कादेशः, "अमीषा"मित्यादौ इणः परस्य सस्य च षत्वं न सिध्यतीति दिक्। "प्रथमयोः--" इति सूत्रानन्तरं "दीर्घाच्छसी"त्येव सुवचम्। दीर्घाच्छस्येव पूर्वसवर्णदीर्घ इति तस्यार्थः। एवं च चकारो न कर्तव्यो, नेति च नानुवर्तनीयमिति महल्लाघवमित्येके। "शसि दीर्घादेवे"ति विपरीतनियमवारणाय "नृ()न्पे", "कानाम्रेडिते" इति निर्देशाश्रयणे प्रतिपत्तिगौरवं स्यादिति यतान्यास एव श्रेय इत्यन्ये।