पूर्वम्: ६।१।१०४
अनन्तरम्: ६।१।१०६
 
प्रथमावृत्तिः

सूत्रम्॥ एङः पदान्तादति॥ ६।१।१०५

पदच्छेदः॥ एङः ५।१ ११८ पदान्तात् ५।१ अति ७।१ ११८ पूर्वः १।१ १०३ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ संहितायाम् ७।१ ७०

अर्थः॥

पदान्तात् एङः अति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशः भवति, संहितायां विषये॥

उदाहरणम्॥

अग्नेऽत्र, वायोऽत्र॥
काशिका-वृत्तिः
एङः पदान्तादति ६।१।१०९

एङ् यः पदान्तः तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकाद्शो भवति। अग्ने ऽत्र। वायो ऽत्र। अयवादेशयोरयम् अपवादः। एङः इति किम्। दध्यत्र। मध्वत्र। पदान्तातिति किम्? चयनम्। लवनम्। अति इति इम्। वायो इति। भानो इति। वायविति। भानविति। तपरकरणम् इति किम्? वायवायाहि।
लघु-सिद्धान्त-कौमुदी
एङः पदान्तादति ४३, ६।१।१०५

पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णोऽव॥
न्यासः
एङः पदान्तादति। , ६।१।१०५

"अग्नेऽत्र" इति। "सम्बुद्धौ च" ७।३।१०६ इति गुणः॥
बाल-मनोरमा
एङः पदान्तादति ८६, ६।१।१०५

एङः पदान्तादति। "अमि पूर्व" इत्यतः पूर्व इत्यनुवर्तते। एकः पूर्वपरयोरित्यधिकृतं। तदाह--पदान्तादित्यादिना। हरे-अवेति स्थितेऽयादेशं बाधित्वा पूर्वरूपमेकारः। विष्णो-अवेत्यत्राऽवादेशं बाधित्वा पूर्वरूपमोकारः।

तत्त्व-बोधिनी
एङः पदान्तादति ७०, ६।१।१०५

एङः पदान्तादति। अयवोरपवादः। "ङसिङसोश्चे"त्यस्यारम्भादस्य पदान्तविषयत्वे लब्धे उत्तरार्थं पदान्तादिति स्पष्टप्रतिपत्तये इहैव कृतमिति मनोरमायां स्थितम्। केचित्तु "पदान्ता"दित्येतदिहाप्यावश्यकमेव, अन्यथाऽपदान्तादपि स्यात्। "ङसिङसोश्चे"ति सूत्रं तु "सुप्सम्बन्धिन्यति परतः पूर्वरूपं चेन्ङसिङसोरेवाऽति परे" इति नियमार्तं स्यात्। तत्फलं तु हरयः, गुरवः, इः स्मृतो यैस्ते स्मृतय इत्यादौ पूर्वरूपाऽप्रवृत्तिरित्याहुः। एङः किम्?। दध्यत्र। पदान्तात्किम्?, चयनम्। लवणम्। अचिनवम्। अति किम्?, हरयिह। विष्णविह। तपरः किम्?, वायवायाहि।