पूर्वम्: ६।१।१०
अनन्तरम्: ६।१।१२
 
सूत्रम्
चङि॥ ६।१।११
काशिका-वृत्तिः
चङि ६।१।११

चङि परतो ऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगम् द्वे भवतः। अपीपचत्। अपीपठत्। आटिटत्। आशिशत्। आर्दिदत्। पचादीनां ण्यनतानाम् चङि कृते णिलोपः, उपधाह्रस्वत्वं, द्विर्वचनम् इत्येषां कार्याणां प्रवृत्तिक्रमः। तथा च सन्वल्लघुनि चङ्परे इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावान् न प्रतिषिध्यते। यो ह्यनादिष्टादचः पूर्वः तस्य विधिं प्रति स्थानिवद्भावो भवति। न च अस्मिन् कार्याणां क्रमेणानिष्टादचः पूर्वो ऽभ्यासो भवति इति। आटिटतिति द्विर्वचने ऽचि १।१।५८ इति स्थानिवद्भावात् द्वितीयस्य एकाचः द्विर्वचनं भवति।
लघु-सिद्धान्त-कौमुदी
चङि ५३३, ६।१।११

चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्वितीयस्य॥
न्यासः
चङि। , ६।१।११

"अपीपचत्()" इत्यादि। पचादिभ्यो ण्यन्तेभ्यो लुङ्(), अडागमः, च्लिः, "णिश्रि" ३।१।४८ इत्यादिना च्लेश्चङ्()। अत्रेदानीं द्विर्वचनं प्राप्नोति णिलोपश्च; द्वयोरपि कृताकृतप्रसङ्गित्वान्नित्यत्वम्(), ततश्चोभयोस्तुल्यबलत्वात्? परत्वाण्णिलोपः। "आटिटत्()" इति। अत्रापि णिलोपे कृते णिलोपस्य स्थानिवत्वादद्विर्वचनं भवत्येव। स्थानिवद्भावस्तु "द्विर्वचनेऽचि" १।१।५८ इत्यनेन। णिलोपोऽपि नित्यः, अकृतेऽपि द्विर्वचने तेन भवितव्यम्(), कृतेऽपि। न च शब्दान्तरप्राप्तिः, द्विष्प्रयोगो द्विर्वचनं भवतीति कृत्वा। स्थाने द्विर्वचनं त्वत्र न स्वीक्रियते; लक्ष्यानुरोधात्()। ततश्चोभयोस्तुल्यबलयोः परत्वाणिणलोपः। तत्र कृते द्विर्वचनं प्राप्नोत्युपधाह्यस्वश्च; तयोरपि कृताकृतप्रसङ्गित्वान्नित्यत्वम्()। द्विर्वचनमपि ह्रकृते ह्यस्वत्वे प्राप्नोति, कृतेऽपि। न च शब्दान्तरप्राप्तिः; "एकदेशविकृतमनन्यवद्भवति" (व्या।प।१६) इति वचनात्()। ह्यस्वत्वमपि कृते द्विर्वचने प्राप्नोत्यकृतेऽपि। न च शब्दान्तरप्राप्तिः, स एव शब्दो द्विरुच्यत इति कृत्वा। स्थाने द्विर्वचनं त्वत्र नाश्रीयते; लक्ष्यानुरोधात्()। तत्रोभयोस्तुल्यबलयोः परत्वाद्? ह्यस्वत्वम्(), ततो द्विर्वचनेन "सन्वल्लघुनि" ७।४।९३ इति सन्वद्भावादित्वम्(), "दीर्घो लघोः" ७।४।९४ इति दीर्घः--इत्येतानि काय्र्याणि कत्र्तव्यानि। अत एवाह वृत्तौ--"पचादीनाम्()" इत्यादि। किं पुनः कारणं तथा शास्त्रप्रवृत्तिः क्रियते, यथैषां कार्याणामयं प्रवृत्तिक्रमो भवति? इत्याह--"तथा च" इत्यादि। "ह्यस्वस्य स्थानिवद्भावान्न प्रतिषिध्यते" इति। तस्याभावादिति भावः। ह#एतौ चेयं पञ्चमी। यथा--"तदशिष्यं संज्ञाप्रमाणत्वात्()" १।२।५३ इति। अत्र हि "सन्वल्लधुनि" ७।४।९३ इत्यादिना लघुनि धात्वक्षरे परे सन्दद्भावो विधीयमानो ह्यस्वस्य स्थानिवद्भावाद्धेतोः प्रतिषिष्यते, तस्मिन्? सति लघुता निवत्र्तत इति कृत्वा। स चास्मिन्? क्रमे सति स्थानिवद्भावो न सम्भवतति सन्वद्भावो न प्रतिषिध्यते; प्रतिबन्धहेतोरभावात्()। कथं पुनरस्मिन्? क्रमे सति कार्याणां स्थानिवद्भावो न सम्भवतीत्याह--"यो ह्रानादिष्टात्()" इत्यादि। "अचः परस्मिन्? पूर्वविधौ" १।१।५६ इत्यत्र यो ह्रनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवतीत्येष सूत्रार्थो व्यवस्थितः। न चास्मिन्? क्रमे सत्यत्राभ्यासोऽनादिष्टदचः पूर्वो भवति, किं तर्हि? आदिष्टादेव। तेन तस्य विधौ कत्र्तव्ये ह्यस्वस्य स्थानिवद्भावो न भवतीति लघुत्वं न निवत्र्तते। ततश्च "सन्वत्()" ७।४।९३ इत्यादिना लघुनिमित्तकः सन्वद्भावो विधीयमानो न व्याहन्यते। यदि पुनर्द्विर्वचनं कृत्वा ह्यस्वादिकार्यं विधीयते ततोऽनादिष्टादचः पूर्वोऽभ्यासः स्यात्(), ततश्च तस्य विधौ कत्र्तव्ये ह्यस्वस्य स्थानिवद्भावः स्यादेव। एवं "दीर्घञ्च" १।४।१२ इति लब्धस्वभावया गुरुसंज्ञया लघुसंज्ञायां निस्तायां सन्वद्भावोऽयन्त्र सावकाश इह न स्यात्()। कः पुनस्तस्यावकाशः? अशीशमदित्यादि। अत्र हि णौ परभूते प्रागेव "मितां ह्यस्वः" ६।४।९२ विधीयते। यदि तह्र्रयं कार्यक्रमः, आटिटदित्यत्र णिलापे कृते द्वितीयस्यैकाचष्टिशब्दस्य द्विर्वचनं न प्राप्नोति; तदभावात्()? इत्यत आह--"आटिटदित्यत्र द्विर्वचनेऽचि" इत्यादि। अथ किमर्थमेतानि त्रीणि सूत्राणि पृथक्? क्रियन्ते--"लिटि धातोरनभ्यासस्य", "श्लौ", "चङि" इति, न "लिङ्श्लुचङ्क्षु" इत्येक एव योगः क्रियताम्(); तत्रायमप्यर्थः--पुनः पुनर्विभक्तिर्नोच्चार यितव्या, लिटि श्लौ च द्विर्वचनम्()? तदनित्यमिति ज्ञापनार्थं पृथग्योकरणम्()। तेन "यो जागार तमृचः कामयन्ते" "दाति प्रियाणि" "धाति प्रियाणि" इत्यत्र न भवति द्विर्वचनम्(), ततश्च "द्विर्वचनप्रकरणे छन्दसि वा" (वा।६५६) इत्येतन्न कत्र्तव्यं भवति॥
न्यासः
अकः सवर्णे दीर्घः। , ६।१।११

"अग्नये" इति। परत्वात्? "घेङिति" ७।३।१११ इति गुणे कृतेऽगभावादत्र न भवति। "दध्यत्र" इति। ननु च यणादेशोऽत्र बाधको भविष्यति, तत्? किमेतन्निवृत्यर्थेन सवर्णग्रहणेन? इहापि तर्हि बाधकः स्यात्()--दधीन्द्रः, मधूष्णमिति। तस्माद्विषयविभागार्थ सवरणग्रहणं कत्र्तव्यम्()। "कुमारी शेते" इति। अत्र "इचुयशास्तालव्याः" इति, "विवृत्तं करणमूष्मणां स्वराणां च" इतीकारस्य सवर्णः शकारो यद्यपि भवति, तथाप्यज्ग्रहणानुवृत्तेर्न भवति। न च सावण्र्यमप्यत्र नास्ति। "नाज्झलौ" इत्यत्र "अणुदित्? सवर्णस्य चाप्रत्ययः" (१।१।६९) इत्येतत्? ग्रहणकशास्त्रमभिनिर्वृत्तं स्यात्(), एवमिकारो गुह्रमाण ईकारस्यापि ग्राहको भवति, ततश्च हि शास्त्रस्य सवर्णसंज्ञाङ्गं निमित्तम्(), ततो यावत्? सा न प्रवत्र्तते तावदङ्गवैकल्याद्ग्रहमकशास्त्रमनभिनिर्वृत्तम्(), एवं सवर्णसंज्ञापि यावदपवादो नाभिनिर्वृत्तो भवति, तावत् क्व मया प्रवर्त्तितव्यमिति स्वविषयमजानाना न प्रवर्तते, ततो "नाज्झलौ" इत्यस्यापवादस्यानाभिनिर्वृत्तत्वात्? सवर्णसंज्ञा न प्रवर्तते। तेनाङ्गवैकल्याद्ग्रहणकशास्त्रमपरिनिष्पन्नम्(), अतोऽकः सवर्णा गृह्रन्ते, तेनागृहीतसवर्णानामेव प्रत्यहारसन्निविष्टानामयं प्रतिषेधः। न चायमीकरोऽक्षु सन्निविष्ट #इति नासौ "नाज्झलौ" इत्याजिति प्रत्याहारग्रहणेन गृह्रते। तेन सवर्णत्वमीकारशकारयोरप्रतिषिद्धम्()। "होल्ल्लृकारः, होतृ()कारः" इति। कथं पुनरत्र दीर्घत्वम्(), यावता ऋकारलृकारयोर्भिन्नस्थानत्वात्? सवर्णसंज्ञा नास्ति? इत्यत आह--"ऋकारलृकारयोः सवर्मसंज्ञाविधिरुक्तः" इति। ननु च ऋकारलृकारसमुदायोऽत्र स्थानीति तस्यैव योऽन्तरतमसतेनैव युकतमादेशेन भवितुम्(), न च ऋकारसतस्यान्तरतमस्तत्? कथं स भवति? इत्यत आह--"दीर्घपक्षे तु" इत्यादि। समुदायान्तरतमस्याभावादिति। ऋकारलृकारसमुदायोऽत्रि स्थानी, तस्य चान्तरतमो दीर्घो न सम्भवतीत्यवयवस्य योऽन्तरतस्तेनैव युक्तमादेशेन भत्रितुम्()। तत्रापि लृकारस्य दीर्घो न सम्भवतीति ऋकारस्य योऽन्तरतमो दीर्घः स एव ऋकारो भवति॥