पूर्वम्: ६।१।१०५
अनन्तरम्: ६।१।१०७
 
सूत्रम्
ङसिङसोश्च॥ ६।१।१०६
काशिका-वृत्तिः
ङसिङसोश् च ६।१।११०

एङः इति वर्तते, अति इति च। एङः उत्तरयोः ङसिङसोः अति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। अपदान्तार्थः आरम्भः।
लघु-सिद्धान्त-कौमुदी
ङसिङसोश्च १७३, ६।१।१०६

एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः २। हर्योः २। हरीणाम्॥
न्यासः
ङसिङसोश्च। , ६।१।१०६

"एङ उत्तरयोः" इत्यादि। एङ उत्तरौ यौ ङसिङसौ तयोः सम्बन्ध्यवयवो योऽत्? तस्मिन्? परत इत्यर्थः। "अग्नेरागच्छति" इति। "घेङिति" ७।३।१११ इति गुणः। अथ कस्मादत्र यथासंख्यं न भवति, एङावपि हि द्वौ, ङसिङ्सावपि द्वावेवेति प्राप्नोति? नैष दोषः, न ह्रत्र ङसिङसोः परतः कार्यं विधीयते, किं तर्हि? तत्सम्बन्धिन इति, स चैक एव। अथापि सम्बन्धिभेदेन भेदः स्यात्()? एवमप्यदोषः, चकारोऽत्र समुच्चायर्थः क्रियते। एवं च समुच्चयो भवति यद्यकैकस्यैङो ङसिङसोः प्रत्येकमपि परतः परपूर्वत्वं भवति; नान्यथा। "ईदग्नेः सोमरुणयोः" ६।३।२६, "ओरावश्यके" ३।१।१२५ इति च निर्देशस्तदभावं ज्ञापयति। लक्षणव्यभिचारचिह्नेन वा। अल्पाच्तरस्य ङसः परनिपातेन यथासंख्याभावोऽवसीयते॥
बाल-मनोरमा
ङसिङसोश्च २४४, ६।१।१०६

ङसिङसोश्च। "एङः पदान्ता"दित्यत "एङ" इति, "अती"ति चानुवर्तते। "अमि पूर्व" इत्यतः "पूर्व" इत्यनुवर्तते। "एकः पूर्वपरयोः" इत्यधिकृतं, तदाह--एङो ङसिङसोरिति। हरेरिति। पूर्वरूपे रुत्वविसर्गौ पञ्चम्येकवचनस्य षष्ठ()एकवचनस्य च रूपमेतत्। यद्यपि ङसिङसौ द्वौ, एङौ च द्वौ, तथापि न यथासङ्ख्यमिष्यते। "यथासङ्ख्यमनुदेशः समाना, स्वरितेने"ति सूत्रच्छेदमभ्युपगम्य यत्र स्वरिततं प्रतिज्ञातं तत्रैव यथासङ्ख्याविज्ञानादिति यथासङ्ख्यसूत्रभाष्ये स्पष्टम्। "अच्च घेः" "उपसर्गे घोः किः" इत्यादिनिर्देशाच्च। हर्योरिति। षष्ठीद्विवचने यणादेशे रूपम्। हरीणामिति। "ह्यस्वनद्यापः" इति नुट्। "नामी"ति दीर्घः। "अट्कुप्वा"ङिति णत्वम्।

तत्त्व-बोधिनी
ङसिङसोश्च २०५, ६।१।१०६

ङसिङसोश्च। इह ङसिङसौ द्वौ, एङावपि द्वौ, तयोर्यथासङ्ख्यं न, अस्वरितत्वात्। अल्पाच्यतरस्य पूर्वनिपाताऽकरणाल्लिङ्गात्, "अच्च घेः" "उपसर्गे घोः कि"रिति निर्देशाच्च।