पूर्वम्: ६।१।११६
अनन्तरम्: ६।१।११८
 
सूत्रम्
अवपथासि च॥ ६।१।११७
काशिका-वृत्तिः
अवपथासि च ६।१।१२१

यजुषि इत्येव। अनुदात्ते इति चशब्देन अनुकृष्यते। अवपथाःशब्दे ऽनुदात्ते अकारादौ परतो यजुषि विषये एङ् प्रकृत्या भवति। त्री रुद्रेभ्यो अवपथाः। वपेर् लङि थासि तिङ्ङतिङः ८।१।२८ इति निघातेन अनुदात्तत्वम्। अनुदात्ते इत्येव, यद्रुद्रेभ्यो ऽवपथाः। निपातैर् यद्यदिहन्त इति निघातः प्रतिषिध्यते।
न्यासः
अवपथासि च। , ६।१।११७

"यद्रुद्रेभ्योऽवपथाः" इति। अटः स्वरेणाद्युवात्तोऽयमवपथाःशब्दः॥