पूर्वम्: ६।१।११७
अनन्तरम्: ६।१।११९
 
सूत्रम्
सर्वत्र विभाषा गोः॥ ६।१।११८
काशिका-वृत्तिः
सर्वत्र विभाषा गोः ६।१।१२२

सर्वत्र छन्दसि भाषायां च अति परतो गोः एङ् प्रकृत्या भवति विभाषा। गो ऽग्रम्, गो अग्रम्। छन्दसि अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वान्।
लघु-सिद्धान्त-कौमुदी
सर्वत्र विभाषाः गोः ४४, ६।१।११८

लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम्? चित्रग्वग्रम्। पदान्ते किम्? गोः॥
न्यासः
सर्वत्र विभाषा गोः। , ६।१।११८

बाल-मनोरमा
सर्वत्र विभाषा गोः ८७, ६।१।११८

सर्वत्र विभाषा। पदान्तादित्यनुवर्तते। "प्रकृत्यान्तः पाद"मित्यतः "प्रकृत्ये"त्यनुवर्तते। प्रकृत्या=स्वभावेन निर्विकारस्वरूपेणाऽवतिष्ठते इत्यर्थः। "यजुष्युर" इत्यतो यजुषीति निवृत्तं। तत्सूचनाय "सर्वत्रे"त्युपात्तम्। तेन लोके वेदे चेति लभ्यते। तदाह--लोक इत्यादि। प्रकृतिभाव इति। स्वभावेनावस्थानमित्यर्थः। एवं च पूर्वरूपमवादेशश्च न। गो-अग्रमिति प्रकृतिभावे रूपम्। पूर्वरूपे गोऽग्रमिति। अत्र एङ इत्यप्यनुवर्तते। ततश्चैकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्गः। हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैवैङो ग्रहणात्। प्रकृते च "ह्यस्वस्य गुण" इत्योकारस्य लाक्षणिकत्वात्। गोरिति। गो असिति स्थिते गो इत्योकारस्य पदान्तत्वाऽभावान्न प्रकृतिभावः। नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्, अत एव "ङसिङसोश्चे"ति तत्र पूर्वरूपारम्भात्।

तत्त्व-बोधिनी
सर्वत्र विभाषा गोः ७१, ६।१।११८

सर्वत्र विभाषा। यद्यपीह "छन्दसि" इति न पकृतम्, तथापि "यजुष्युरः" इत्यादिप्रक्रमाच्छन्दस्येवेति संभाव्येत, अतः "सर्वत्रेत्युक्तम्। तद्व्याचश्टे-लोके वेदे चेति। इह "एङ" इत्यनुवर्त्त्य "एङन्तस्य गो"रिति व्याख्येयम्। तेनेह न--चित्रग्वग्रम्। प्रकृतिभाव इति। एतच्च "प्रकृत्यान्तःपाद"मिति सूत्रात्प्रकृत्येत्यनुवृत्त्या लभ्यते। "नान्तःपाद"मिति पाठे तु "सर्वत्र विभाषे"ति सूत्रेण पूर्वरूपमेव विभाषा निषिध्यत इत्यवधेयम्। निषेधविकल्पे विधिविकल्पः फलित इत्याशयेन पूर्वरूपमेवविकल्प्यत इति मनोरमायां स्थितम्।