पूर्वम्: ६।१।१३१
अनन्तरम्: ६।१।१३३
 
सूत्रम्
सम्परिभ्यां (॰पर्युपेभ्यः) करोतौ भूषणे॥ ६।१।१३२
काशिका-वृत्तिः
सम्पर्युपेभ्यः करोतौ भूषणे ६।१।१३७

सम् परि उप इत्येतेभ्यः भुषणार्थे करोतौ परतः सुट् कात् पूर्वो भवति। संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। अत्र संपुंकानां सत्वम् इति समो मकारस्य सकारः, पूर्वस्य चाकारस्य अनुनासिकः। परिष्कर्ता। परिष्कर्तुम्। परिष्कर्तव्यम्। सुट्स्तुस्वञ्जाम् इति षत्वम्। उपस्कर्ता। उपस्कर्तुम्। उपस्कर्तव्यम्। भूषणे इति किम्? उपकरोति। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुडिष्यते, संस्कृतमन्नम् इति।
लघु-सिद्धान्त-कौमुदी
सम्परिभ्यां करोतौ भूषणे ६८४, ६।१।१३२

न्यासः
सम्पर्युपेभ्यः करोतौ भूषणे। , ६।१।१३२

"सम्पूर्वस्य क्वचिदभूषणेऽपीष्यते" इति। कथं पुनरिष्यमाणो लभ्यते? "संस्कृतं भक्षाः" ४।२।१५ इत्याचार्यप्रवृत्तेलिङ्गात्()॥
बाल-मनोरमा
संपरिभ्यां करोतौ भूषणे ३७८, ६।१।१३२

संपरिभ्याम्।