पूर्वम्: ६।१।१४२
अनन्तरम्: ६।१।१४४
 
सूत्रम्
वर्चस्केऽवस्करः॥ ६।१।१४३
काशिका-वृत्तिः
वर्चस्के ऽवस्करः ६।१।१४८

कुत्सितं वर्चः वर्चस्कम् अन्नमलम्, तस्मिन्नभिधेये ऽवस्करः इति निपात्यते। अवपूर्वस्य किरतेः कर्मणि ऋदोरप् ३।३।५७ इत्यप्, निपातनाप् सुट्। अवकीर्यते इत्यवस्करो ऽन्नमलम्, तत्सम्बन्धात् देशो ऽपि तथा उच्यते। वर्चस्के इति किम्? अवकरः।
बाल-मनोरमा
वर्चस्केऽवस्करः १०४८, ६।१।१४३

वर्चस्केऽवस्करः। "मूत्रं प्ररुआआव उच्चारावस्करौ शमलं शकृत्। गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रिया"मित्यमरः।