पूर्वम्: ६।१।१४३
अनन्तरम्: ६।१।१४५
 
सूत्रम्
अपस्करो रथाङ्गम्॥ ६।१।१४४
काशिका-वृत्तिः
अपस्करो रथाङ्गम् ६।१।१४९

अपस्करः इति निपात्यते रथाङ्गं चेद् भवति। अपपूर्वात् किरतेः ऋदोरप् इत्यप्, निपातनात् सुट्। अपस्करो रथावयवः। रथाङ्गम् इति किम्? अपकरः।
न्यासः
अपस्करो रथाङ्गम्?। , ६।१।१४४

"रथावयवः" इति। अनेनादिशब्दस्थावयववचनमाचष्टे॥
बाल-मनोरमा
अपस्करो रथाङ्गम् १०४९, ६।१।१४४

अपस्करो। "स्याद्रथाङ्गमपस्करः" इत्यमरः। "चक्रं रथाङ्गमि"ति च।