पूर्वम्: ६।१।१४
अनन्तरम्: ६।१।१६
 
सूत्रम्
वचिस्वपियजादिनां किति॥ ६।१।१५
काशिका-वृत्तिः
वचिस्वपियजादीनां किति ६।१।१५

सम्प्रसारणम् इति वर्तते। ष्यङः इति निवृत्तम्। वचि वच परिभाषणे, ब्रुवो वचिः २।४।५३ इति च। स्वपि ञिष्वप शये। यजादयः यज देवपूजासंगतिकरनदानेसु इत्यतः प्रभृति आगणान्ताः। तेषां वचिस्वपि यजादीनां किति प्रत्यये परतः सम्प्रसारणम् भवति। वचि उक्तः। उक्तवा। स्वपि सुप्तः। सुप्तवान्। यज इष्टः। इष्टवान्। वप उप्तः। उप्तवान्। वहौउढः। ऊढवान्। वसौषितः। उषितवान्। वेञुतः। उतवान्। व्येञ् संवीतः। संवीतवान्। ह्वेञ् आहूतवान्। वद उदितः। उदितवान्। टुओश्वि शूनः। शूनवान्। धातोः स्वरूपग्रहणे तत्प्रत्ययेकार्यं विज्ञायते। तेन इह न भवति, वाच्यते, वाचिकः इति।
लघु-सिद्धान्त-कौमुदी
वचिस्वपियजादीनां किति ५४९, ६।१।१५

वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति। ईजतुः। ईजुः। इयजिथ, इयष्ठ। ईजे। यष्टा॥
न्यासः
वचिस्वपियजादीनां किति। , ६।१।१५

आदिशब्दोऽयं यजिनैव सम्बध्य इति, न वच्यादिभिः प्रत्येकम्()। यदि हि प्रत्येकमभिसम्बन्धोऽभिमतः स्यात्? "वच भाषणे" (धा।पा।१०६३) इत्यधीत्य "ञिष्वप्? शये" (धा।पा।१०६८) इत्यधीयताम्(), तत्र वच्यादीनामित्येवं स्वपेरपि सिध्यतीति पृथगुपादानं न कत्र्तव्यं जायते। नन्वेवम्(), "रुदश्च पञ्चभ्यः" (७।३।९८) इत्यत्र स्वपेग्र्रहणं च स्यात्()? नैष दोषः; शक्यते हि रुदादीनामादौ स्वपिमधीत्य "स्वपश्च पञ्चभ्यः" इत्येवं सूत्रं प्रणेतुम्()। तस्माद्युक्तमुक्तम्()---यजिनैव सम्बध्यत इति। वचेः स्वपिना साहचय्र्याद्धातुनिर्देशार्थ इकारः, न विशेषणार्थः। तेन च ब्राञादेशस्यैव ग्रहणं भवतीत्याह--"वच परिभाषणे, ब्राउवो वचिरिति च" इति। "उक्तः" इति। "सम्प्रसारणाच्च" ६।१।१०४ इति परपर्वत्वम्()। "इष्टः" इति। व्रश्चादिना ८।२।३६ षत्वम्(), ततः ष्टुत्वम्()। "ऊढः" इति। "हो ढः" ८।२।३१ इति ढत्वम्(), "ष्टुना ष्टुः" ८।४।४० इति ष्टुत्वम्(), "ढो ढे लोपः" ८।३।१३ इति ढकारलोपः, "ढ्रलोपे पूर्वस्य दीर्घोऽणः" ६।३।११० इति दीर्घत्वम्()। "उषितम्()" इति। "शासिवसिघसीनाञ्च" ८।३।६० इति षत्वम्()। "संवीतः आहूतः, शूनः" इति। "हलः" ६।४।२ इती दीर्घः। "शूनः" इत्यत्र "ओदितश्च" ८।२।४५ निष्ठानत्वम्()। अथेह कस्मान्न भवति--वाचमिच्छति वाचा तरतीति ठक्? वाच्यति वाचिक इति? यद्यपि वचेः "क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसप्रसारणञ्च" (वा।२८८) इति वा दीर्घः कृतः, तथापि "एकदेशविकृतमनन्यवद्भवति" इत्यस्ति प्राप्तिरित्याह--"धातोः" इत्यादि। यत्र धातुः सामान्यवाचिना धातुशब्देन नोपादीयते, अपि तु स्वशब्देनैव, तत्र तत्प्रत्यये दातोरित्येवं यो विहितः प्रत्ययस्तत्रैव कार्यं विज्ञायते। एतच्च भ्रौणहत्येति निपातनं कुर्वन्? ज्ञापयति--तद्धितत्वार्थ निपातनम्()। यदि च धातोः स्वरूपग्रहणे तत्प्रत्यय एव कार्यं न विज्ञायेत, तत्वनिपातनमनर्थकं स्यात्()। "हनस्तोऽचिण्णलोः" ७।३।३२ इत्यनेनैव तत्वस्य सिद्धत्वात्()। "वाच्यति वाचिकः" इत्यत्र यद्यपि "विवबन्ता धातुत्वं न जहति" (व्या।प।१३२) इति, तथापि धातोरित्येवं नासौ प्रत्ययो विहितः। तथा ह्रेकत्र सुप इत्येवं प्रत्ययो विहितः--"सुप आत्मनः क्यच्()" ३।१।८ इति, इतरत्र च "प्रातिपदिकात्()" इत्येवं ङ्याप्प्रातिपदिकाधिकारात्? (४।१।१।)। तस्मादिह वचेः स्वरूपग्रहणात्? तत्प्रत्यय एव कार्यसंविज्ञानं न भवति॥
बाल-मनोरमा
वचिस्वपियजादीनां किति २४१, ६।१।१५

यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य संप्रसारणे पूर्वरूपे च इयजतुरिति प्राप्ते-- वचिस्वपि। "वचिस्वपी"ति ति इका निर्देशः। सौत्रः संप्रसारणाऽभावः। आदिशब्दो यजिनैव संबध्यते, न तु वचिस्वपिब्याम्, तथा सति हि वच्यादेःस्वप्यादेर्यजादेश्चेत्यर्थः स्यात्। तथा सति पृथक्स्वपिग्रहणं व्यर्थं स्यात्, अदादिगणे लुग्विकरणे "वच परिभाषणे" इत्यारभ्य षष्ठस्य "ञि ष्वप् शये" इत्यस्य वच्यादिग्रहणेनैव सिद्धेः। तदाह--वचिस्वप्योर्यजादीनां चेति। ननु यज् अतुस् इति स्थिते द्वित्वात्परत्वात्संप्रसारणे कृते "विप्रतिषेधे यद्बाधितं तद्बाधितमेवे"ति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्क्याह-- पुनः प्रसङ्गेति। ईजतुरिति। यज् अतुस् इति स्थिते संप्रसारणे पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः। एवं चाऽत्र किति लिटि "वचिस्वपी"ति सूत्रम्, अकिति लिटि तु "लिट()भ्यासस्ये"ति सूत्रमिति स्थितिः। भारद्वाजनियमात्थलि वेट्। कृते द्वित्वेऽकित्त्वाद्वचिस्वपीत्यप्रवृत्तौ "लिट()भ्यासस्ये"त्यभ्यासयकारस्य संप्रसारणम्। तदाह--इयजिथ इयष्ठेति। अनिट्पक्षे व्रश्चादिना जस्य षत्वे ष्टुत्वेन थस्य ठः। ईजथुः ईज। इयाज--इयज, ईजिव ईजिम। ईजे इति। "असंयोगा"दिति कित्त्वात् "वचिस्वपी"ति संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः। ईजाते ईजिरे क्रादिनियमादिट्। ईजिषे ईजाथे ईजिध्वे। ईजे ईजिवहे ईजिमहे। यष्टेति। तासि व्रश्चादिना जस्य षत्वे ष्टुत्वेन तकारस्य टः। यक्ष्यति यक्ष्यते इति। व्रश्चादिना जस्य षत्वे "षढो"रिति षस्य कत्वे सस्य षत्वमिति भावः। अयाक्षीदिति। सिचि हलन्तलक्षणा वृद्धिः। जस्य षः, तस्य कः, सस्य ष इति भावः। अयष्टेति। अयज् स् त इति स्थिते "झलो झलीति सलोपे, जस्य षः, ष्टुत्वेन तकारस्य ट इति भावः। अयक्षाताम् अयक्षत। अयक्ष्यत्, अयक्ष्यत। डु वप् बीजसंताने इति। प्ररोहार्थं बीजानां क्षेत्रेषु प्रक्षेपणे इत्यर्थः। तदाह-- क्षेत्रे विकिरणमिति। "वपिः प्रकिरणार्थ" इति "सन्यङो"रित्यत्र भाष्यम्। गर्भाधानं चेति। "अप्रमत्तारक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सु"रित्यादौ तथा दर्शनादिति भावः। अयं छेदनेऽपीति। "वर्तते" इति शेषः। केशान्वपतीति। छिनत्तीत्यर्थः। अनिडयम्। उवापेति। "लिट()भ्यासस्ये"त्यकित्यभ्यासस्य संप्रसारणमिति भावः। किति तु "वचिस्वपी"ति द्वित्वात्प्राक्संप्रसारणे कृते द्वित्वम्। ऊपतुः ऊपुः। उवपिथ--उवप्थ, ऊपथुः ऊप। उवाप-- उवप ऊपिव ऊपिम। ऊपे इति। ऊपाते ऊपिरे। ऊपिषे ऊपाथे ऊपिध्वे। ऊपे ऊपिवहे ऊपिमहे। वप्तेति। वप्स्यति। वप्स्यते। वपतु वपताम्। अवपत् अवपत। वपेत् वपेत। उप्यादिति। आशिषि यासुटः कित्त्वात् "वचिस्वपी"ति संप्रसारणम्। वप्सीष्टेति। सीयुटि रूपम्। प्रण्यवाप्सीदिति। लुङि परस्मैपदे सिचि हलन्तलक्षणा वृद्धिः। "नेर्गदे"ति णत्वम्। अवाप्ताम् अवाप्सुः। अवप्तेति। आत्मनेपदे लुङि "झलो झली"ति सलोपः। अवप्साताम्। वह प्रापणे इति। अयमनिट्। वहति वहते। उवाहेति। "लिट()भ्यासस्ये"ति अकिति अभ्यासस्य संप्रसारणमिति भावः। किति "वचिस्वपी"ति संप्रसारणे कृते द्वित्वम्। ऊहतुः ऊहुः। भारद्वाजनियमात्थलि वेट्। तदाह--उवहिथेति। "न शसददेति निषेधात् "थलि च सेटी"ति न भवति। अथ थलि अनिट्पक्षे आह--सहिवहोरोदवर्णस्येति। सहिवहोरवर्णस्य ओत्स्याड्()ढ्रलोपे परत इत्यर्थः। "ढ्रलोप" इति दीर्घं बाधित्वा ओत्त्वमिति भावः। उवोढेति। तासि ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं च। लृटि स्ये, हस्य ढः, तस्य कः,षत्वम्। तदाह-- वक्ष्यति वक्ष्यते इति। वहतु वहताम्। अवहत् अवहत। वहेत्। वहेत। उह्रात्। अवाक्षीदिति। हलन्तलक्षणवृद्दौ ढकषाः प्राग्वत्। अवोढामिति। "झलो झली"ति सलोपे ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं चेति भावः। अवाक्षुरिति। उसि सिचि वृद्धौ ढकषाः। अवाक्षीः अवोढम् अवोढ। अवाक्षम् अवाक्ष्व अवाक्ष्म। अवोढेति। लुङि आत्मनेपदे प्रथमपुरुषैकवचने अवह् स् त इति स्थिते सलोपः, ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं च। अवक्षातामिति। आतामि सिचि ढकषा इति भावः। अवक्षतेति। "आत्मनेपदेष्वनतः" इत्यदादेशः। अवोढ्वमिति। अवक्षि अवक्ष्वहि अवक्ष्महि। अवक्ष्यत् अवक्ष्यत। इति वहत्यन्ताः स्वरितेतो गताः। वसधातुरनिट्। अकिति लिटि परे "लिट()भ्यासस्ये"त्यभ्यासस्य संप्रसारणम्। तदाह-- उवासेति। किति तु "वचिस्वपी"ति संप्रासरणे कृते द्वित्वादौ लिटि परे "लिट()भ्यासस्ये"त्यभ्यासस्य #आदेशप्रत्ययावयवत्वाऽभावादप्राप्ते षत्वे-