पूर्वम्: ६।१।१४५
अनन्तरम्: ६।१।१४७
 
सूत्रम्
ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे॥ ६।१।१४६
काशिका-वृत्तिः
ह्वस्वाच् चन्द्रौत्तरपदे मन्त्रे ६।१।१५१

चन्द्रशब्दे उत्तरपदे ह्रस्वात् परः सुडागमो भवति मन्त्रविसये। सुश्चन्द्रः युष्मान्। ह्रस्वातिति किम्? सूर्याचन्द्रमसाविव। मन्त्रे इति किम्? सुचन्द्रा पौर्णमासी। उत्तरपदं समास एव भवति इति प्रसिद्धम्, तत इह न भवति, शुक्रमसि, चन्द्रमसि।
न्यासः
हवस्वाच्चन्द्रोत्तरपदे मन्त्रे। , ६।१।१४६

पूर्वं कात्पूर्वग्रहणादभक्तः सुडित्युक्तम्()। इह कात्? पूर्वत्वं न सम्भवति, आगमलिङ्गं चास्य टित्त्वमस्ति, तत आगम एव सुङ्? विज्ञायत इत्याह--"सुडागमो भवति" इति। स च भवन्? "उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्()" (शाक।प।प।९७) इति ह्यस्वादिति पञ्चम्याः, चन्द्रोततरपद इति च सप्तम्याः षष्ठ()आं प्रकल्पितायां चन्द्रशबदस्यैव भवति। "सुश्चन्द्रः" इति। प्रादिसमासः। "सूर्याचन्द्रमसौ" इति। द्वन्द्वः "देवताद्वन्द्वे च" ६।३।२५ इत्यानङ्। अथेह कस्मान्न भवति--शुक्लमसि, चन्द्रमसीति, अत्रापि ह्यस्वात्? परश्चन्द्रशब्द उत्तरपदमस्ति? इत्यत आह--"उत्तरपदम्()" इत्यादि। शुक्लमसि, चन्द्रमसति वाक्ये। तस्मादिह चन्द्रशब्द उत्तरपदग्रहणेन न गृह्रत एव। यस्मादुत्तरपदं समास एव प्रसिद्धम्()॥