पूर्वम्: ६।१।१४६
अनन्तरम्: ६।१।१४८
 
सूत्रम्
प्रतिष्कशश्च कशेः॥ ६।१।१४७
काशिका-वृत्तिः
प्रतिष्कशश् च कशेः ६।१।१५२

कश गतिशासनयोः इत्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट् निपात्यते, तस्य एव षत्वम्। ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः। वार्तापुरुषः, सहायः, पुरोयायी वा प्रतिष्कशः इत्यभिधीयते। कशेः इति किम्। प्रतिगतः कशां प्रतिकशो ऽश्वः। अत्र यद्यपि कशेरेव कशाशब्दः, तथा अपि कशेरिति धातोरुपादानं तदुपसर्गस्य प्रतेः प्रतिपत्त्यर्थम्। तेन धात्वन्तरोपसर्गान् न भवति।
न्यासः
प्रतिष्कशश्च कशेः। , ६।१।१४७

"प्रतिगतः कशां प्रतिकशोऽ()आः" इति। प्रादिसमासः। ननु च कशाशब्दोऽपि कशेरेव धातोः पचाद्यचमुत्पाद्य साध्यते, तदिहापि सुटा भवितव्यम्()? इत्यत आह--"यद्यपि" इत्यादि। कशेरेव धातोर्यदुपादानं तत्? तस्यैव कशेर्यं उपसर्गः परतिशब्दस्तस्य प्रतिपत्तिर्यथा स्यादित्येवमर्थम्()। न च कशेः प्रतिरुपसर्गः, किं तर्हि? गमेः।
बाल-मनोरमा
प्रतिष्कशश्च कशेः १०५१, ६।१।१४७

प्रतिष्कशश्च कशेः। कशेरिति कश इत्यत्रान्वेति। तथाच कशधातोर्निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः। कशेरेवेति। कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः। धात्वन्तरेति। प्रतिगतः कशां प्रतिकश इत्यत्र गभिं प्रत्येव प्रतिरुपसर्गः, नतु कशिं प्रति, "यत्क्रियायुक्ताः प्रादयः" इति नियमादित्यर्थः।

तत्त्व-बोधिनी
प्रतिष्कशश्च कशेः ८७७, ६।१।१४७

कशेरेव कशेति। कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः। धात्वन्तरेति। "प्रतिकशः"इत्यत्र प्रतिर्गमेरुपसर्गो, न तु कशेः, "यत्क्रियायुक्ताः प्रादयस्तं प्रत्येवे"ति न्यायादिति भावः।