पूर्वम्: ६।१।१४९
अनन्तरम्: ६।१।१५१
 
सूत्रम्
कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः)॥ ६।१।१५०
काशिका-वृत्तिः
कास्तीराजस्तुन्दे नगरे ६।१।१५५

कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरे ऽभिधेये। ईषत्तीरमस्य, अजस्येव तुन्दमस्य इति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यम् एतयोः। कास्तीरं नाम नगरं। अजस्तुन्दं नाम नगरम्। नगरे इति किम्? कातीरम्। अजतुनदम्।
काशिका-वृत्तिः
कारस्करो वृक्षः ६।१।१५६

कारस्कर इति सुट् निपात्यते व्र्क्षश्चेद् भवति। कारं करोति इति दिवाविभानिशाप्रभाभास्करान्त इति टप्रत्ययः। कारस्करो वृक्षः। वृक्षः इति किम्? कारकरः। केचिदिदं नाधीयते, पारस्करप्रभृतिष्वेव कारस्करो वृक्षः इति पठन्ति।
न्यासः
कास्तीराजस्तुन्दे नगरे। , ६।१।१५०

न्यासः
कारस्करो वृक्षः। , ६।१।१५०

"केचित्()" इति। यदि तर्हि सूत्रमेतत्? केचिन्नाधीयते तत्? कथं तेषां कारस्कशब्दो वृक्षे सिध्यति? इत्याह--"पारस्करप्रभृतिष्वेव" इत्यादि॥
बाल-मनोरमा
कास्तीराऽजस्तुन्दे नगरे १०५४, ६।१।१५०

कास्तीराऽजस्तुन्दे। कास्तीरशब्दोऽजस्तुन्दशब्दश्च नगरे निपात्येते इत्यर्थः।

बाल-मनोरमा
कारस्करो वृक्षः १०५५, ६।१।१५०

कारस्करो वृक्ष। कारं करोतीति विग्रहः। "कृञो हेतुताच्छील्ये" इति टः।

तत्त्व-बोधिनी
कास्तीराऽजस्तुन्दे नगरे ८८०, ६।१।१५०

कातीरमिति। "ईषदर्थे" इति कोः कादेशः।