पूर्वम्: ६।१।१५१
अनन्तरम्: ६।१।१५३
 
सूत्रम्
अनुदात्तं पदमेकवर्जम्॥ ६।१।१५२
काशिका-वृत्तिः
अनुदात्तं पदम् एकवर्जम् ६।१।१५८

परिभाषा इयम् स्वरविधिविषया। यत्र अन्यः स्वरः उदात्तः स्वरितो वा विधीयते, तत्र अनुदात्तं पदम् एकं वर्जयित्वा भवति इत्येतदुपस्थितं द्रष्टव्यम्। अनुदात्ताच्कम् अनुदात्तम्। कः पुनरेको वर्ज्यते? यस्य असौ स्वरो विधीयते। वक्ष्यति धातोः ६।१।१५६ अन्तः उदात्तो भवति। गोपायति। धूपायति। धातोरन्त्यम् अचं वर्जयित्वा परिशिष्टम् अनुदात्तं भवति। धातुस्वरं श्नाश्वरो बाधते। लुनाति। पुनाति। श्नाश्वरं तस्स्वरः। लुनीतः। पुनीतः। तस्स्वरमांस्वरः। लुनीतस्तराम्। पुनीतस्तराम्। आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च। पृथक्ष्वरनिवृत्त्यर्थम् एकवर्जं पदस्वरः। आगमस्य चितुरनुडुहोरामुदात्तः ७।१।९८। चत्वारः। अनड्वाहः। आगमस्वरः प्रकृतिस्वरं बाधते। विकारस्य अस्थनि, दधनि इत्यनङ्स्वरः प्रकृतिस्वरं बाधते। प्रकृतेः गोपायति। धूपायति। प्रकृतिस्वरः प्रत्ययस्वरं बाधते। प्रत्ययस्य कर्तव्यम्। हर्तव्यम्। प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः। परनित्यान्तरङ्गापवादैः स्वरैर् व्यावस्था सतिशिष्टेन च। यो हि यस्मिन् सति शिष्यते स तस्य बाधको भवति। तथा हि गोपायति इत्यत्र धातुस्वरापवादः प्रत्ययस्वरः, तेन एव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद् बाध्यते। कार्ष्णोत्तरासङ्गपुत्रः इत्यत्र च समासस्वरापवादो बहुव्रिहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन वाध्यते। विकरणस्वरस् तु सतिशिष्टो ऽपि सार्वधातुकस्वरं न बाधते। लुनीतः इति तस एव स्वरो भवति। विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम्। अतिस्रः इत्यत्र तिसृभ्यो जसः ६।१।१६० इति सतिशिष्टो ऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते। विभक्तिनिमित्तस्वराच् च नञ्स्वरो बलीयानिति वक्तव्यम्। अचत्वारः, अनन्ड्वाहः इति। यस्य विभक्तिर् निमित्तमामः, तस्य यदुदात्तत्वं तनप्रस्वरेण बाद्यते। पदग्रहनं किम्? देवदत्त गामभ्याज शुक्लाम् इति वाक्ये हि प्रतिपदं स्वरःपृथग् भवति। परिमाणार्थं च इदं पदग्रहणम् पदाधिकारस्य निवृत्तिं करोति। तेन प्रागेव पदव्यपदेशात् स्वरविधिसमकालेम् एव शिष्टस्य अनुदात्तत्वं भवति। तथा च कुवल्या विकारः कौवलम् इत्यत्र अनुदात्तादिलक्षणो ऽञ् सिद्धो भवति। तथा गर्भिणीशब्दश्च अनुदात्तादिलक्षणस्य अञो बाधनर्थं भिक्षादिषु पठ्यते। कुवलगर्भशब्दौ आद्युदात्तौ।
न्यासः
अनुदात्तं पदमेकवर्जम्?। , ६।१।१५२

"एकवर्जम्()" इति। एकं वर्जयित्वेत्यर्थः। "द्वितीयायाञ्च" ३।४।५३ इति णमुल्प्रत्ययः। यद्ययमधिकारार्थः स्यात्(), तत्? षाष्ठिक एव स्वरः सङ्गृहीतः स्यात्()। ये त्वन्ये स्वराः "समानोदरे शयित ओ चोदात्तः" ४।४।१०७, "अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः" ७।१।७५ इत्येवमादयः सप्ताध्याय्याम्(), ते न संगृहीता स्युः। परिभाषायां त्वस्यां तेऽपि संगृहीता भवन्ति। सा ह्रेकदेशे स्थितापि सकलं शास्त्रमभिज्वलयति, यथा वेश्म प्रदीप इवेत्यालोच्याह--"परिभाषेयम्()" इति। विध्यङ्गशेषभूता चेयम्()। परिभाषा हि कार्यवाक्यानां शेषभावगता। यस्य पदादयवस्य स्वरित उदात्तो वा विधीयते तत्र शेषमनुदात्तं भवति। "स्वरविधिविषया" इति। स्वरविधिर्विषयोऽस्या इति विग्रहः। "यत्रान्यः" इति। अनुदात्तापेक्षमन्यत्वम्()। "तत्रानुदात्तं पदम्()" इति। ननु च "नीचैरनुदात्तः" १।२।३० इत्यनुदात्तशब्दो विशिष्टगुणेऽवसङ्गीतः, तत्राज्झललक्षणञ्च पदम्(), पदशब्दस्यार्थस्तत्? कथमत्र सामानाधिकरण्यम्()? नैष दोषः; अनुदात्ताच्कमनुदात्तं पदमिहाभिमतम्(), तेन पद एवानुदात्तशब्दो वत्र्तते। कथम्()? मत्वर्थीयाकारान्तत्वात्()। अनुदात्ता अस्य सन्तीत्यनुदात्तम्()। अर्श आदेराकृतिगणत्वादत्राच्()। एकवर्जमित्युक्तम्(), स त्वेको न ज्ञायते यो वर्जनीयः, तस्याभिव्यक्तये पृच्छति--"कः पुनः" इत्यादि। यस्य चोदात्तः स्वरतो वा विधीयते स एवाको वज्र्यते। यदि ह्रसावपि न वज्र्यते तस्य तत्? स्वरविधानमन्रथकं स्यात्()। "गोपायति, धूपायति" इति। "गुपू रक्षणे" (धा।पा।३९५) "धीप सन्तापे" (धा।पा।३९६) "गुपूधूप" ३।१।२८ इत्यादिनाऽ‌ऽयपरत्ययान्तस्य "सनाद्यन्ता धातवः ३।१।३२ इति धातुसंज्ञा, "धातोः" ६।१।१५६ इति धातोश्चान्तोदात्तत्वम्(), आयप्रत्ययान्तस्यान्त्ययकाराकारस्य धातुस्वरत्वम्()। "धातुस्वरं श्नास्वरो बाधते" इति। सतिशिष्टस्वरत्वात्(), सतिशिष्टसय वलीयस्त्वात्()। तथा ह्रु कतम्()--"सतिशिष्टस्वरो बलीयानिति वक्तव्यम्()"। (वा।६।१।१६८) इति। "लुनाति, पुनाति" इति। "प्वादीनां ह्यस्वः" ७।३।८० इति ह्यस्वः। श्नाप्रत्ययसय च प्रत्ययस्वरेणाद्युदात्तत्वम्()। "श्नास्वरम्()" इति। बाधत इति सम्बध्यते। ननु परत्वात्? तिबादिषु कृतेषु विकरणैर्भवितव्यम्(), अतः सति सार्वधातुकस्वरे श्नास्वरस्य शिष्यमाणत्वात्? तस्य सतिशिष्टत्वम्(); एवञ्च श्नास्वरेणैव बाधा युक्ता ततस्वरस्य? एवं मन्यते यत्? "तास्यनुदात्तेन्ङिदुपदेश" ६।१।१८० इत्यादिना तासेः परस्य लसार्वधातुकत्वं शास्ति तज्ज्ञापयति--शिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरेण बाध्यत इति। "लुनीतः, पुनीतः" इति। "ई हल्यधोः ६।४।११३ इतीत्वम्()। "तस्स्वरमाम्स्वरः" इति। बाधत इति सम्बन्धः। बाधकत्वे तस्य हेतुः सतिशिष्टत्वमेव। "लुनीतस्तराम्()" इति। "तिङ्श्च" ५।३।५६ इति तसन्तात्तरप्(), तदन्तात्? "किमेतिङ्व्यय" ५।४।११ इत्यादिनाऽ‌ऽमुप्रत्ययः। किमर्थं पुनरयमेकवर्जपदस्वरो विधीयते? इत्याह--"आगमस्य" इत्यादि। आगमादीनां पृथक्? स्वरो मा मुदित्येवमर्थमेकं वर्जयित्वा पदानुदात्त्वं विधीयते। "आगमस्वरः प्रकृतिस्वरं वाधते" इति। सत्यस्मिन्नेकवर्जं पदं स्वरे। असति तवस्मिन्? परकृतेरागमस्य च पृथगेव स्वरः स्यात्()। "चत्वारः" इति। प्रकृतिस्वरः पुनराद्युदात्तत्वम्()। तथा हि "चतेरुरन" (द।उ।८।७८) इत्युरन्प्रत्ययान्तश्चतुःशब्दो व्युत्पाद्यत इति स नित्स्वरेणाद्युदात्तो भवति। "अनङ्वाहः" इति। अनुडुहोऽप्येवं व्युत्पत्तिः क्रियते। "अन प्राणने" (धा।पा।१०७०) अस्मात्? "सर्वधातुभ्योऽसुन्()" (द।उ।९।४९) इत्यसुन्प्रत्ययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्? "उश्चानसः" (द।उ।९।४९) इत्यसुन्परतययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्? "उश्चानसः" (द।उ।९।१०७) इत्यनस्युपपदे वहेर्धातोः क्विप्(), अनश्चोकारादेशः। वहेर्यजादित्वात्? सम्प्रसारणम्(), उपपदसमासः, "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्()। तस्मादनुडुहोऽप्येवं व्युत्पादितस्य स्यादाद्युदात्तत्वम्()। विकारः=आदेशः। "अनङ्स्वरः प्रकृते" इति। दध्यसथिशब्दावाद्युदात्तौ। तथा हि "असु क्षेपणे" (धा।पा।१२०९) "असिसञ्जिभ्यां क्थिन्()" (द।उ।१।१०) इति क्थिन्प्रत्ययान्तत्वान्नित्स्वरेणास्थिशब्द आद्युदात्तः। दधिशब्दोऽपि किन्प्रत्ययान्तत्वादाद्युदात्त एव। धाधातोः "आदृगमहनजनः किकिनौ लिट्? च" ३।२।१७१ इति किन्प्रत्ययः, तत्र द्विर्वचने कृत आकारलोपे च दधीति भवति। "अस्थिदधि" ७।१।७५ इत्यादिनाऽनङि कृते तस्य यः स्वरः स च कत्र्तवयः, तस्याप्यसत्यस्मिन्नस्थिदधिशब्दयोरनङश्च प्रथगेवोदात्तत्वं तु स्यात्()। अ()स्मस्तु सत्यनङ एव भवति। "प्रकृते:" इत्यादि। "गोपायति, धूपायति" इति। अत्र प्रकृतेर्गुपेर्धूपेश्च "धातोः" ६।१।१५६ इत्यन्तोदात्त्त्वे आयप्रत्ययादेरप्याकारस्य प्रत्ययाद्युदात्तत्वम्()। गोपायधूपायशब्दयोरपि "सनाद्यन्ता धातवः" (३।१।३२) इति धातुसंज्ञायां कृतायाम्? "धातोः" ६।१।१५६ इत्यन्तोदात्तमेव प्राप्नोति। एवं पृथक्? स्वरप्रसंगे यकाराकारस्यैव धातुस्वरो भवति, न गुपिधूप्योः, नापि प्रत्ययाकारस्य। "कत्र्तव्यम्()" इति। धातोरन्तोदात्तत्वे प्रत्ययस्याद्युदात्तत्वे च प्राप्ते प्रत्ययाद्युदात्तत्वमेव भवति, न तु धातुस्वरः। अथानियमेनैकस्वरस्य वर्जयमानता कस्मान्न भवति, न ह्रत्र सूत्रे कश्चिद्()व्यवस्थाहेतुरुपात्तः, न च विना व्यवस्थाहेतुना सा लभ्यते? इत्याह--"परनित्यान्तरङ्ग" इत्यादि। यत्र परादिस्वराः प्राप्नुवन्ति, तद्विपक्षाश्च, तत्र परादीनां बलीयस्त्वात्? तत एव वर्जयं न, इतरे तु निवर्त्त्यन्ते। यत्र तु परनित्यान्तरङ्गापवादेऽपि क्वचिदिष्टं न सिध्यति, तत्र सतिशिष्टेन व्यवस्था भवति, तस्य हि वलीयसत्वमुक्तम्()। अतः सतिशिष्टेतरस्वरप्राप्तौ सतिशिष्ट एव वज्र्यते, मेतरः। कथं पुनः सतिशिष्टे न व्यवस्था? इत्यत आह--"यो हि" इत्यादि। कथमेतज्ज्ञायते? इत्याह--"तथा हि" इत्यादि। "गोपायति" इति। अत्रायप्रत्ययस्य प्रत्ययस्वरेणाद्युदात्तत्वम्()। स च स्वरो धातुस्वरस्यापवादोऽपि सन्नायप्रत्ययान्तस्य धातुसंज्ञायां कृतायां पुनस्तेन धातुस्वरेण सतिशिष्टेन बाध्यते। "कार्ष्णोत्तरासङ्गपुत्रः" इति। बहुव्रीहिं कृत्वा तत्पुरुषः कत्र्तव्यः। "बहुव्रीहिस्वरः" इति। "बहुव्रीहौ प्रकृत्या" ६।२।१ इत्यादिनोक्तः। पूर्वकं ज्ञापकं चेतस कृत्वाऽ‌ऽह--"विकरणस्वरस्तु" इत्यादि। "विभक्तिस्वरात्()" इत्यादि। "निपाता आद्युदात्ताः" (फि।सू।४।८०) इति नञुदात्तः। तत्र तत्पुरुष समासे कृते "तत्पुरेषे तुल्यार्थं" ६।२।२ इत्यदिवा प्रकृतस्वरादुदात्तत्वमेव भवति। यदा तु नञ्स्वराद्विभक्तिसवरः प्राप्नोति नञ्स्वरश्चेष्यते, तस्माद्विभक्तिस्वरो "बलीयानिति वक्तव्यम्() बलीयस्त्वे सति किं भवति? इत्याह--"अतिस्तर इत्यत्र" इत्यादि। "तिसृब्यो जसः" ६।१।१६० इत्यनेन विभक्तेरुदात्तत्वं विधीयते। तद्बलीयस्त्वात्? सतिशिष्टमपि नञ्सवरेण बाध्यते। विभक्तस्वरस्य तु--तिरुआः, त्रिसृष्वित्येषोऽवकाशः। "विभक्तिनिमित्तस्वराच्च" इत्यादि। विभक्तिर्निमित्तं यस्य स स्वरो विभक्तिनिमित्तस्वरः। "यस्य विभक्तिर्निमित्तमामः" इति। आमो विभक्तिनिमित्तत्वं, "पथमथोः सर्वनामस्थाने" ६।१।१९३ इत्यतः सर्वनामस्थानग्रहणानुवृत्तेः। तस्य "यदुदात्तत्वम्()" इत्यादिना बलीयस्त्वस्य फलं दर्शयति। विभक्तिनिमित्तस्वरस्य--चत्वारः, अनङ्वाह इतत्येषोऽवकाशः। "वाक्ये हि" इत्यादि। देवदत्तशब्द आमन्त्रितस्वरेणाद्युदात्तत्वम्(), गोशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः, तस्य "औतोऽम्शसोः" ६।१।९० इत्याकारोऽपि स्थानिवद्भावेनोदात्त एव। तथा विभक्त्या सहैकादेशेऽपि "एकादेश उदात्तेनोदात्तः" ८।२।५ इति वचनात्()। अभिशब्दोऽन्तोदात्तः, तस्य "निपाता आद्युदात्ताः" (फि।सू।४।८०), "उपसर्गाश्चाभिवर्जम्()" (फि।सू।४।८१) इत्याद्युदात्तविधाने वर्जितत्वात्? प्रातिपदिकस्वर एव भवति। आङुपसर्गस्वरेणाद्युदात्तः। अजित्येष तु लोडन्तः "तिङ्ङतिङ" ८।१।२८ इति निधातेनानुदात्तः। शुक्लशब्दो हि प्रातिपदिकस्वरेणान्तोदात्त इति तस्य "एकादेश उदात्तेनोदात्तः" ८।२।५ इति टापा सहैकादेशे कृतेऽन्तोदात्त एव भवति। एवममिपूरवत्वे कृते वेदितव्यम्()। तदेवं पदग्रहणाद्वाक्य एकैकस्मिन्? पदे पृथगेव स्वरो भवति। यद्यनुदात्तं पदमेकवर्जं भवति, एवं सति यावत्? पदसंज्ञा न भवति तावदेकं वर्जयित्वा परिशिष्टस्यानुदात्तत्वेन भवितव्यम्(), ततश्च कुवल्या विकारः, कौवलमित्यत्र "अनुदात्तादेश्च" ४।२।१३९ इत्येनेनाञ्()प्रत्ययो न स्यात्()। यत कुवलशब्दोयं "ग्रामदीनाञ्च" (फि।सू।२।३८) इत्याद्युदात्तः, गौरादित्वान्ङीषि विहतेऽपि पदव्यपदेशाभावादाद्युदात्तत्वं न परित्यजतीत्याह--"परिमाणार्थं चेदम्()" इत्यादि। पदमत्र गौणमभिप्रेतम्? न मुख्यम्(); अन्यथा पदाधिकारे सति पुनः पदग्रहणमनर्थकं स्यात्()। तस्मादुत्तरकालं यस्य पदसंज्ञा भविष्यति, तदिह पदमभिप्रेतमिति वेदितव्यम्()। असति पदग्रहणे न ज्ञायते--कियतामचामनुदात्तत्वं भवतीति। पदग्रहणे तु सत्येकस्मिन्? पदे यावन्तोऽचस्तावतामनुदात्तत्वं भवतीत्येषोऽर्थो ज्ञायते, तस्मात्? परमाणार्थमिति। नतु सुबन्तस्य तिङ्न्तस्य वा प्रतिपादनार्थम्()। तेन प्रागेव पदव्यदैशादनुदात्तत्वेन भवितव्यमिति न भवति पूर्वोक्तदोषप्रसङ्गः। स्यादेतत्()--यद्यपि पदमित्यनेन मुख्यं पदं न प्रत्याय्यते, तथापि पदाधिकारेण तदिह सन्निधाप्यत इति तदवस्थ एव स दोषः? इत्यत आह--"पदाधिकारस्य निवृतिं()त करोति" इति। एतत्? पदग्रहणं गौणमर्थं प्रतिपादयन्? मुख्यपदधिकारं निवत्र्तयति। तेन किमिष्टं भवति? इत्याह--"तेन" इत्यादि। "तथा च" इति। एवं च सतीत्यर्थः प्रागेव पदवयपदेशात् स्वरविधानतुल्यकालमेव परिशिष्टतस्यानुदात्तत्वं भवतीति। अमुमेवार्थं द्रढयितमाह--"गर्भिणी" इत्यादि। गर्भोऽस्या अस्तीतीनिः, "ऋन्नेभ्यो ङीप्" ४।१।५ इति ङीप्()। गर्भशब्दोऽयं कुवलशब्दवदाद्युदात्तः। तत्र यदीनिप्रत्ययस्योदात्तत्वसमकालमेवानुदात्तत्वं भवति ततो गर्भिणीशब्दस्यानुदाततादित्वात्? "अनुदाततादेरञ्? (४।२।४४) इत्यञ्? प्राप्नोतीति तद्बाधनार्थं युज्यते तस्य भिक्षादिषु पाठः। तस्य तूत्तरकालं पदसंज्ञायामुपजातायामवशिष्टस्यानुदात्तत्वं स्यात्()। एवं सति गर्भिणी शब्द आद्युदात्तः स्यात्()। ततश्चाणो बाधनार्त भिक्षादिषु न पठ()एत, पठ()ते च। तस्मात्? ततो विज्ञायते--प्रागेव पदव्यपदेशात्? स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यभिप्रायः। किं पुनः कारणं लब्धायां पदसंज्ञायामवशिष्टस्यानुदात्त्त्वे विधीयमाने कुवलशब्दावञ्? न सिध्यति, कथञ्च गर्भिणीशब्दस्यानुदात्तादिलक्षमस्याञो बाधनार्थो भिक्षादिषु पाठः प्रागेव पदवयपदेशात्? स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यस्यार्थस्य ज्ञापकः? इत्याह--"कुवलगर्भशब्दौ" इत्यादि। आद्युदात्त्त्वे ह्रनयोर्यदि पदसंज्ञायां सत्यामवशिष्टस्यानुदात्तत्वं स्यात्(), कुवलीशब्दस्य च स्यात्? ततश्च कुवलीशब्दाद्विकारेऽर्थेऽञ्? न स्यात्()। गर्भिणीशब्दस्याद्युदात्तत्वादञ्? प्राप्नोति, ततस्तद्बाधनर्थं भिक्षादिषु न पठ()एत, पठ()ते च, तस्मादवसीयते--प्रागेव पदव्यपदेशादवशिष्टस्यानुदात्तत्वं भवति॥