पूर्वम्: ६।१।१५२
अनन्तरम्: ६।१।१५४
 
सूत्रम्
कर्षात्वतो घञोऽन्त उदात्तः॥ ६।१।१५३
काशिका-वृत्तिः
कर्षाऽत्वतो घञो ऽन्त उदात्तः ६।१।१५९

कर्षतेर् धातोराकारवतश्च घञन्तस्यान्त उदात्तो भवति। कर्षः। पाकः। त्यागः। रागः। दायः। धायः। ञ्नित्यादिर्नित्यम् ६।१।१९१ इत्यस्य अपवादः। कर्षः इति विकृतनिर्देशः कृषतेर् निवृत्त्यर्थः। तौदादिकस्य घञन्तस्य कर्षः इत्याद्युदात्तः एव भवति।