पूर्वम्: ६।१।१५८
अनन्तरम्: ६।१।१६०
 
सूत्रम्
कितः॥ ६।१।१५९
काशिका-वृत्तिः
कितः ६।१।१६५

तद्धितस्य इत्येव। तद्धितस्य कितो ऽन्त उदात्तो भवति। नडादिभ्यः फक् ४।१।९९ नाडायनः। चारायणः। प्राग्वहतेष्ठक् ४।४।१ आक्षिकः। शालाकिकः।
न्यासः
कितः। , ६।१।१५९

प्रत्ययस्वरस्यापवादोऽयम्()। "आक्षिकः, शालाकिकः" इति। "तेन दीव्यति" ४।४।२ इत्यर्थे ठक्()॥