पूर्वम्: ६।१।१६२
अनन्तरम्: ६।१।१६४
 
सूत्रम्
अन्तोदत्तादुत्तरपदादन्यतरस्यामनित्यसमासे॥ ६।१।१६३
काशिका-वृत्तिः
अन्तौदात्तादुत्तरपदादन्यतरस्याम् अनित्यसमासे ६।१।१६९

एकाचः इति वर्तते, तृतीयादिर् विभक्तिरिति च। नित्यशब्दः स्वर्यते, तेन नित्याधिकारविहितः समासः पर्युदस्यते। नित्यसमासादन्यत्रानित्यसमासे यदुत्तरपदम् अन्तोदात्तम् एकाच्च तस्मात् परा तृतीयादिर् विभक्तिरन्यतरस्याम् उदात्ता भवति। परमवाच, परमवाचा। परमवाचे, परमवाचे। परमत्वचा, पर्मत्वचा। परमत्वचे, परमत्वचे। यदा विभक्तिरुदात्ता न भवति, तदा समासान्तोदात्तत्वम् एव। अन्तोदात्तातिति किम्? अवाचा। सुवाचा। सुत्वचा। तत्पुरुषो ऽयम्। तत्र तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमान। अव्ययय (*६,२।२।) इति पूर्वपदप्रकृतिस्वरः। उत्तरपदग्रहणम् एकाच्त्वेन उत्तरपदं विशेषयितुम्, अन्यथा हि समासविशेषणम् एतत् स्यात्। तत्र शुनः ऊर्क, श्वोर्जा इत्यत्र एव अयं विधिः स्यात्। अनित्यसमासे इति किम्। अग्निचिता। सोमसुता उपपदम् अतिङ् २।२।१९ इत्ययं नित्याधिकारे समासो विधीयते। तत्र गतिकारकौपपदात् कृत् ६।२।१३८ इत्युत्तरपदप्रकृतिस्वरेन चित्शब्दः उदात्तः। यस् तु विग्रहाभावेन नित्यसमासस् तत्र भवत्येव विकल्पः, अवाचा ब्राह्मणेन, सुबाचा ब्राह्मणेन इति। बहुव्रीहौ नञ्सुभ्याम् ६।२।१७१ इत्युत्तरपदान्तौदात्तत्वं भवति।
न्यासः
अन्तोदात्तादुततरपदादन्यतरस्यामनित्यसमासे। , ६।१।१६३

यदि विग्रहाभावेन यो नित्यसमासः स इह नित्यसमासग्रहणेन गृह्रेत्? ततोऽवाचा, सुवचा ब्राआहृणेनेत्यत्रापि विकल्पेन स्यादित्येतच्चेतसि कृत्वाऽ‌ऽह--"नित्यशब्दः स्वर्यते" इति। स्वरितत्वमस्य क्रियत इत्यर्थः। तेन किं भवति? इत्याह--"तेन" इत्यादि। स्वरितत्वेन ह्रधिकारगतिर्भवति। तेन नित्याधिकारो यो विहितः समासः। स च नित्याधिकारविहितसमासो न भवतीत्यनित्यसमासः। "सुवाचा" इति। "कुगति" २।२।१८ इत्यादिना समासः। "अव्ययपूर्वपदप्रकृतिस्वरः" ["तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यय" इति पूर्वपदप्रकृतिस्वरः--काशिका] इति। स पुनरुदात्तः; "निपाताश्चाद्युदात्ताः", "उपसर्गाश्चाभिवर्जम्()" (फि।सू।४।८०,८१) इति वचनात्()। यथात्रोत्तरपदस्यान्तोदात्तत्वं नास्ति, एवमनित्यसमासत्वमपि; "कुगति" २।२।१८ इत्यादावपि नित्यग्रहणानुवृत्तेः। एवं सति "मयूरव्यंसकादयश्च" २।१।७१ इत्यनेनात्र समासो द्रष्टव्यः; मरव्यूयंसकादेराकृतिगणत्वात्()। "अन्यथा हि" इति। यद्युत्तरपदग्रहणं न क्रियेत, तदैकाज्ग्रहणं समासविशेषणं स्यात्()। तत्र को दोषः स्यात्()? इत्याह--"तत्र" इत्यादि। ऊर्क्()शब्दः सम्पदादित्त्वात्? क्विबन्तः। "अग्निचिता, सोमसुता" इति। "अग्नौ चेः" ३।२।९१ "सोमे सुञः" ३।२।९० इति क्विप्()। "अयं नित्याधिकारे समासो विधीयते" इति। तत्र "नित्यं क्रीडाजीविकयोः" २।२।१८ इत्यतो नित्यग्रहणानुवृत्तेः। "तत्र" इत्याद्। "गतिकारकोपपदात्()" कृत्? ६।२।१३८ इत्यनेनोत्तरपदस्य प्रकृतिस्वरो विधीयते। उत्तरपदं च धातुस्वरेणान्तोदात्तम्(), तेन चिच्छब्द उदात्तो भवति। एवं सोमसुच्छब्दोऽपि। "यस्तु" इत्यादि। "नित्यशब्दः स्वय्र्यते" (का।६।१।१६९) इति यदुक्तम्(), तस्यानेन प्रयोजनं दर्शयति। "अवाचा, सुवाचा" इति। अत्राकारेण पूर्वपदेन सुशब्देन च विग्रहो नोपपद्यते, तयोरिह प्रयोगाभावान्नत्यसमासावेतौ, न तु नित्याधिकारविधानात्()॥
न्यासः
निष्ठोपमानादन्यतरस्याम्?। , ६।१।१६३

"मुखं स्वाङ्गम्()" ६।२।१६६ इति नित्ये प्राप्ते विकल्पवचनमेतत्()। "यदैतदुत्तरपदान्तोदात्तत्वम्()" इत्यादि। अन्यतरस्यांग्रहणाद्विकस्पेनैतदुत्तरपदान्तोदात्तत्वं विधीयते। तेन यदैतन्न भवति तदा निष्ठोपसर्गपूर्वपदस्यान्यतरस्याम्()" ६।२।१०९ [निष्ठोपसर्गपूर्वमन्यतरस्याम्()--पा।सू।] इति पक्षे पूर्वपदान्तोदात्तत्वं भवति। तस्यापि विकल्पेन विधानाद्यादास्याभावस्तदा "गतिरनन्तरः" ६।२।४९ इति पूर्वपदस्य प्रकृतिभावविधानाद्गतिस्वर एव। तेनाद्युदात्तत्वं भवति। यत एवं ततस्त्रीण्युदाहरणानि भवन्ति--एकमनेन सूत्रेणोत्तरपदस्यान्तोदात्तत्वविधानम्(), द्वितीयं "निष्ठोपसर्गपूर्वादन्यतरस्याम्()" ६।२।१०९ [निष्ठोपसर्गपूर्वमन्यतरस्याम्()--पा।सू।] इत्यादिना पूर्वपदान्तोदात्तत्वविधानम्(), तृतयं "गतरनन्तरः" ६।२।४९ इति गतेः प्रकृतिस्वरविधानम्()। "सिंहमुखः" इति। सिंहशब्दः पचाद्यजन्तत्वादन्तोदात्तः। "तृहि हिसि हिंसायाम्()" (धा।पा।१४५५,१४५६), ["तृह"--धा।पा।] हिनस्तीति सिंहः--पृषोदरादित्वाद्वर्णव्यत्ययः। "व्याघ्रमुखः" इति। "घ्रा गन्धोपादाने" (धा।पा।९२६) इत्यस्माद्व्याङ्पूर्वात्? "आतश्चोपसर्गे कः", ३।१।१३६, तेन व्याघ्रशब्दोऽप्यन्तोदात्त एव॥