पूर्वम्: ६।१।१७२
अनन्तरम्: ६।१।१७४
 
सूत्रम्
षट्त्रिचतुर्भ्यो हलादिः॥ ६।१।१७३
काशिका-वृत्तिः
षट्त्रिचतुर्भ्यो हलादिः ६।१।१७९

अन्तोदात्तातित्येतन् निवृत्तम्। षट्सञ्ज्जाकेभ्यः, त्रि चतुरित्येताभ्यां च परा हलादिर् विभक्तिरुदात्ता भवति। षङ्भिः। षङ्ह्यः। पञ्चानाम्। षण्णाम्। सप्तानाम्। त्रि त्रिभिः। तिर्भ्यः। त्रयाणाम्। चतुर् चतुर्भ्यः। चतुर्णाम्। हलादिः इति किम्? चतस्रः पश्य।
न्यासः
षटूत्रिचतुर्भ्यो हलादिः। , ६।१।१७३

"अन्तोदात्तादित्येतन्निवृत्तम्()" इति। यद्येतदनुवत्र्तेत, पञ्चानाम्(), सप्तानाम्(), चतुर्णामित्यत्र न स्यात्()। पञ्चादीनां शब्दादीनां "न्रः संख्यायाः (फि।सू।२।२८) इत्युदात्तत्वात्? "न्रः" इति रेफनकारान्तयोः संख्याशब्दयोग्र्रहणम्()॥