पूर्वम्: ६।१।१७
अनन्तरम्: ६।१।१९
 
सूत्रम्
स्वापेश्चङि॥ ६।१।१८
काशिका-वृत्तिः
स्वापेश् चङि ६।१।१८

स्वापेः इति स्वपेर् ण्यन्तस्य ग्रहणम्। तस्य चङि परतः संप्रसारणम् भवति। असूषुपत्, असूषुपताम्, असूषुपन्। द्विर्वचनात् पूर्वम् अत्र संप्रसारणम्, तत्र कृते लघूपधगुणः, तस्य णौ चङ्युपधायाः ह्रस्वत्वम्, ततो द्विर्वचनम्, दीर्घो लघोः ७।४।९४ इति दीर्घत्वम्। चङि इति किम्? स्वाप्यते। स्वापितः। किति इति निवृत्तम्। ङिति इति केवलम् इह अनुवर्तते इत्येतद् दुर्विज्ञानम्।
न्यासः
स्वापेश्चङि। , ६।१।१८

"स्वापेः" इति। "आप्लृ व्याप्तौ" (धा।पा। १२६०) इत्यस्यापि सुपर्वस्येका निर्देशः सम्भवति, अतस्तद्ग्रहणाशङ्कानिराकरणायाह--"स्वपेण्र्यन्तस्य ग्रहणम्()" इति। ण्यन्तस्य ग्रहणं चङ्ग्रहणाद्विज्ञायते, न ह्रण्यन्ताच्चङ्? सम्भवति। "असूषुपत्()" इति। "हेतुमति च" ३।१।२६ इति णिच्()। "द्विर्वचनात् पर्वमत्र सम्प्रसारणम्()" इति। परत्वात्()। "स्वाप्यते" इति। कर्मणि लकारः, "सार्वधातुके यक्()" ३।१।६७। "स्वापितम्()" इति। "निष्ठायां सेटि" ६।४।५२ इति णिलोपः। ननु च ग्रह्रादि (६।१।१६) सूत्रात्? ङितोत्यनुवत्र्तते, न च स्वापेश्चङोऽन्यो ङिदस्ति, तत्र सामथ्र्याचचङ्येव भविष्यतीति न कत्र्तव्यमेव चङ्ग्रहणम्()? इत्यत आह--"ङितिति केवलम्()" इत्यादि। ग्रह्रादिसूत्रे ह्रुभयं सन्निहितम्--किद्ग्रहणम्(), ङिद्ग्रहणञ्च, तत्रोभयोरविशेषेण सन्निधाने ङिद्ग्रहणमेवानुवत्र्तते, न किद्ग्रहणमिति मन्दधिया दुर्बोधम्()। अतः सुखप्रतिपत्त्ये मन्दबुद्धेश्चङ्ग्रहणं क्रियत इति भावः॥
बाल-मनोरमा
स्वापेचङि ४१२, ६।१।१८

स्वापेश्चङि। संप्रसारणमिति। "ष्यङः संप्रसारण"मित्यतस्तदनुवृत्तेरिति भावः। असू षुपदिति। संप्रसारणं तदाश्रयं चकार्यं बलव"दिति वचनात्कृते संप्रासरणेद्वित्वं पूर्वरूपं सन्वत्तवदीर्घौ षत्वमिति भावः।

तत्त्व-बोधिनी
स्वापेश्चङि ३६०, ६।१।१८

स्वापेश्चङि। चङि किम्?। स्वापयति। असूषुपदिति। इह संप्रसारणोत्तरं द्वित्वम्।