पूर्वम्: ६।१।१७४
अनन्तरम्: ६।१।१७६
 
सूत्रम्
विभाषा भाषायाम्॥ ६।१।१७५
काशिका-वृत्तिः
विभाषा भाषायाम् ६।१।१८१

षट्त्रिचतुर्भ्यो या झलादिर् विभक्तिस् तदन्ते पदे उपोत्तमम् उदात्तं भवति विभाषा भषायां विषये। पञ्चभिः, पञ्चभिः। सप्तभिः, सप्तभिः। तिसृभिः, तिसृभिः। चतुर्भिः, चतुर्भिः।
न्यासः
विभाषा भाषायाम्?। , ६।१।१७५

पूर्वेण नित्ये प्राप्ते विकल्पार्थं वचनम्()॥