पूर्वम्: ६।१।१८०
अनन्तरम्: ६।१।१८२
 
सूत्रम्
आदिः सिचोऽन्यतरस्याम्॥ ६।१।१८१
काशिका-वृत्तिः
आदिः सिचो ऽन्यतरस्याम् ६।१।१८७

उदात्तः इति वर्तते। सिजन्तस्य अन्यतरस्याम् आदिरुदात्तो भवति। मा हि कार्ष्टाम्, मा हि कार्ष्टाम्। एको ऽत्र आद्युदात्तः, अपरो ऽन्तोदात्तः। मा हि लाविष्टाम्, मा हि लाविष्टाम्। एको ऽत्र आद्युदात्तः, अपरो मद्योदात्तः। सिचश्चित्करणादागमानुदात्तत्वं हि वाध्यते। सिच आद्युदात्तत्वे ऽनिटः पितः पक्षे उदात्तत्वं वक्तव्यम्। मा हि कर्षम्, मा हि कार्षम्। अनिटः इति किम्? मा हि लाविसम्। मध्योदात्त एव आद्युदात्ताभावपक्षे भवति।
न्यासः
आदिः सिचोऽन्यतरस्याम्?। , ६।१।१८१

"मा हि कार्ष्टाम्()" इति। हेः, माङश्च प्रयोगो प्रयोजनं पूर्वमेवोक्तम्()। "अपरोऽन्तोदात्तः" इति। प्रत्ययस्वरेण। "अपरो मध्योदात्तः" इति। प्रत्ययस्वरेणैव। ननु च वलादिरिह प्रत्ययः, इट्? चागमः, आगमानां चानुदात्तत्वं भवति, तस्मादिहाप्यन्तोदात्तेनैव भवितव्यम्(), तत्? कथं मध्योदात्तत्वम्()? इत्याह--"सिचश्चित्कारणात्()" इत्यादि। सिचश्चित्करणेनानुदात्तत्वे बाधिते चित्स्वर एव भवतीति युक्तं मध्योदात्तत्वम्()। "सिच आद्युदात्त" इत्यादि। सिच आद्युदात्तत्वे कत्र्तव्येऽनिटो विद्यमानो सिचः परो यश्चित्प्रत्ययस्तस्योदात्तत्वं वक्तव्यम्()। "मा हि कार्षम्()" इति। पक्षे सर्वानुदात्तं पदं मा भूदित्येवमर्थमिदम्()। पक्षे तूदात्तत्वेन मुक्ते सर्वानुदात्तमेव पदं भवति॥