पूर्वम्: ६।१।१८४
अनन्तरम्: ६।१।१८६
 
सूत्रम्
सर्वस्य सुपि॥ ६।१।१८५
काशिका-वृत्तिः
सर्वस्य सुपि ६।१।१९१

सर्वशब्दस्य सुपि परतः आद्युदात्तो भवति। सर्वः, सर्वौ, सर्वे। सुपि इति किम्? सर्वतरः। सर्वतमः। प्रत्ययलक्षणे ऽप्ययं स्वर इष्यते सर्वस्तोमः इति। सर्वस्वरो ऽनकच्कस्य इति वक्तव्यम्। सर्वकः। चित्स्वरेण अन्तोदात्तो भवति।
न्यासः
सर्वस्य सुपि। , ६।१।१८५

"इष्शीभ्यां वन्? (द।उ।८।१२६) इति प्रकृत्य "सर्वनीधृधरिष्वलष्वशिवपट्()वप्रेष्वा अस्वतन्त्रे" ["सर्वनिधृष्वरिष्वलिष्पशिपह्यस्वपद्वप्रहेष्वा अतन्त्रे"--द।उ।] (द।उ।८।१२७) इति सर्वशब्दोऽन्तोदात्तो निपातितः। तेन तस्य सुप्याद्युदात्तत्वं विधीयते। अन्तोदात्तत्वनिपातनं तु सर्वस्य विकारः सार्वं इत्यत्र "अनुदात्तादेरञ्()" ४।२।४३ यथा स्यात्()। "प्रत्ययलक्षणेनापि" इत्यादि। कथं पुनरिष्यमाणोऽपि लभ्यते, यावता सर्वस्तोम इत्यत्र "सुपो धातुप्रातिपदिकयोः" २।४।७१ इति लुमता लुप्तम्(), ततश्च "न लुमताङ्गस्य" (१।१।६३) इति प्रत्ययलक्षलस्य प्रतिषेधेन भवितव्यम्()? नैष दोषः; पूर्वसूत्राच्चकारोऽनुवत्र्तते, स च समुच्चयार्थः। तेन प्रतिषेधविषयेऽप्येष स्वरो भविष्यति। "सर्वस्वरोऽनकच्कस्य" इत्यादि। योऽयं सर्वशब्दस्य स्वरो विधीयते स तस्याविद्यमानाकच्कस्य भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"आदिः सिचोऽन्यतरस्याम्()" ६।१।१८१ इत्यतोऽन्य तरस्यांग्रहणमिह मण्डूकप्लुतिन्यायेनानुत्र्तते, सा च व्यवस्थितविभाषा, तेनानकच्कस्य भवति॥