पूर्वम्: ६।१।१८५
अनन्तरम्: ६।१।१८७
 
सूत्रम्
भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम् पिति॥ ६।१।१८६
काशिका-वृत्तिः
भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वं पिति ६।१।१९२

भी ह्री भृ हु मद जन धन दरिद्रा जागृ इत्येतेषां अभ्यस्तानां लसार्वधातुके पिति प्रत्ययात् पूर्वम् उदात्तं भवति। विभेति। जिह्रेति। विभर्ति। जुहोति। ममत्तु नः परिज्मा। मदेः बहुलं छन्दसि इति विकरणस्य श्लुः। जजनदिन्द्रम्। जन जनने इत्यस्य पञ्चमे लकारे रूपम्। धन धान्ये इत्यस्य पञ्चमे लकारे दधनत्। दरिद्राति। जागति। भ्यादीनाम् इति किम्? ददाति। पिति इति किम्? दरिद्रति।
न्यासः
भीह्वीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूंर्व पिति। , ६।१।१८६

"अनुदात्ते च" (६।१।१९०) इत्याद्युदात्ते प्राप्ते प्रत्ययात्? पूर्वस्य भीह्यप्रभृतीनामुदात्तो विधीयते।