पूर्वम्: ६।१।१९२
अनन्तरम्: ६।१।१९४
 
सूत्रम्
पथिमथोः सर्वनामस्थाने॥ ६।१।१९३
काशिका-वृत्तिः
पथिमथोः सर्वनामस्थाने ६।१।१९९

पथिमथिशब्दावौणादिकाविनिप्रत्ययान्तौ प्रत्ययस्वरेण अन्तोदात्तौ, तयोः सर्वनामस्थाने परतः आदिरुदात्तो भवति। पन्थाः, पन्थानौ, पन्थानः। मन्थाः, मन्थानौ, मन्थानः। सर्वनामस्थाने इति किम्? पथः पश्य। मथः पश्य। उदात्तनिवृत्तिस्वरेण अन्तोदात्तो भवति। प्रत्ययलक्षणम् अत्र अपि न इष्यते। पथिप्रियः इत्यत्र पूर्वपदप्रकृतिस्वरेण अन्तोदात्तः पथिशब्दः।
न्यासः
पथिमथोः सर्वनामस्थाने। , ६।१।१९३

"पथिमथिशब्दो" इत्यादि। "गमेरिनिः" (द।उ।६।५७) इत्यत इनिप्रत्यये वत्र्तमाने "मन्थः" (द।उ।६।६२) इतीनिप्रत्ययः, अतो मथिञ्शब्दो व्युत्पाद्यते, "परमे कित्()" (द।उ।६।६१) इत्यतः किद्ग्रहणानुवृत्तेर्मनथेरनुनासिकलोपः। "पतस्थ च" (द।उ।६।६३) इति पथिञ्शब्दोऽपीनित्प्रत्ययान्त इति तेनेतौ प्रत्ययस्वरेणान्तोदात्तौ। "पन्थाः" इति। "पथिमथ्यृभुक्षामात्()" ७।१।८७ इत्यकरान्तादेशः। "इतोऽत्? सर्वनामस्थाने" ७।१।८६ इतीकारस्यात्त्वम्(), "थो न्थः" ७।१।८७ इति थस्य न्थादेशः। "पथः पश्य" इति। "भस्य टेर्लोपः" ७।१।८८ इति टिलोपः। तत्र कृते "अनुदात्तस्य च यत्रोदात्त लोपः" ६।१।१५५ इत्यन्तोदात्तत्वम्()। "पथिप्रियः" इति। पन्थाः प्रियो यस्येति बहुव्रीहिः। "वा प्रियस्य" (वा।११४) इति प्रियशब्दस्य पक्षे परनिपातः॥