पूर्वम्: ६।१।१
अनन्तरम्: ६।१।३
 
सूत्रम्
अजादेर्द्वितीयस्य॥ ६।१।२
काशिका-वृत्तिः
अजादेर् द्वितीयस्य ६।१।२

प्रथमद्विर्वचनापवादो ऽयम्। अजादेर् द्वितियस्य एकचो द्विर्वचनम् अधिक्रियते। अचादिर् यस्य धातोः तदवयवस्य द्वितीयस्य एकाचो द्वे भवतः। अटिटिषति। अशिशिषति। अरिरिषति। अर्तेः स्मिपूङ्रञ्ज्वशां सनि ७।२।७४ इति इट् क्रियते। तस्मिन् कृते गुणे च रपरत्वे च द्विर्वचने ऽचि १।२।५९ इति स्थानिवद्भावः प्राप्नोति। तत्र प्रतिविधानं द्विर्वचननिमित्ते ऽचि इति उच्यते। न च अत्र द्विर्वचननिमित्तमिट्। किं तर्हि? कार्यी। न च कार्यी निमित्तत्वेन अश्रीयते। तथा हि क्ङिनिमित्तयोर् गुणवृद्ध्योः प्रतिषेधो विधीयमानः शयिता इत्यत्र न भवति, न हि कार्यिणः शीङो गुणं प्रति निमित्तभावः इति। अत्र केचिदजादेः इति कर्मधारयात् पञ्चमीम् इच्छन्ति। अच् च असौ आदिश्च इत्यजादिः, तस्मातजादेरुत्तरस्य एकाचो द्वे भवतः इति। तेषां द्वितीयस्य इति विस्पष्टर्थं द्रष्टाव्यम्।
न्यासः
अजादेर्द्वितीयस्य। , ६।१।२

"प्रथमद्विर्वचनापवादोऽयम्()" इति। ननु च "एकाचो द्वे प्रथमस्य" ६।१।१ इत्यनेन प्रथमस्यैकाचो द्विर्वचनं विधीयते, "अजादेर्द्वितीयस्य" ६।१।२ इत्यनेन तु द्वितीयस्य; तत्? कथमन्यस्योच्यमानमिदमन्यस्य बाधकं स्यात्()? सति खलु सम्भवे बाधकं भवति, अस्ति च सम्भवो यदुभयं स्यात्()। स्यादेतत्()--घातोरित्येषा षष्ठी, तसया द्वितीयेनैकाचा प्रथमेन च सम्बन्धो नोपपद्यते, अतो नास्त्युभयसम्भव इति? एतच्च नास्ति; अन्यद्धि वाक्यं प्रथमद्विर्वचनस्य विधायकम्(), अन्यचच द्वितीयद्विर्वचनस्य। तत्र वाक्यबेदे च सति किमिति सम्बन्धो नोपपद्यते, तस्मात्? कृतेऽपि द्वितीयद्विर्वचने प्रथमद्विर्वचनं सम्भवत्येवेत्युक्तं बाधनम्()? नैष दोषः; इह द्वीपम्(), अन्तरीपमित्यत्र "द्व्यन्तरुपसर्गेभ्योऽप ईत्()" ६।३।९६ इतीत्त्वम्(), "अलोऽन्त्यस्य" (१।१।५२) इत्यनैनान्तस्यालः प्राप्तम्? "आदेः परस्य" १।१।५३ इत्यनेनादेर्विधीयते, तत्र यथा सत्यपि सम्भवेऽनन्त्यविकारोन्त्यविकारं बाधते, तथा द्वितीयद्विर्वचनं प्रथमद्विर्वचनं बाधिष्यते। यदि तर्हि प्रथमस्यैकाचो द्विर्वचनमनेन बाध्यते, व्यञ्जनस्यापि प्रथमद्विवचनसम्बन्धिनो द्विर्वचनं बाध्येत। तद्यथाभूतस्यैव प्रसङ्गस्तथाभूतस्यैव द्विर्वचननिवृत्तिर्भवति। किम्भूतस्य च प्रथमद्विर्वचनस्य प्रसङ्गः? सव्यञ्जनस्य। तत्र यथा प्रथमस्यैकाचो द्विर्वचनं न भवति, एवमेकाज्व्यपदेशिनो व्यञ्जनस्यापि न स्यात्()? नैष दोषः; यदयं "न न्द्राः संयोगादयः" ६।१।३ इति प्रतिषेधं शास्ति, तज्ज्ञापयति--व्यञ्जनस्य द्विर्वचननिवृत्तिर्न भवति। अन्यता हि नदराणां द्विर्वचनप्रतिषेधोऽनर्थकः स्यात्(), प्राप्त्यभावात्()। "अटिटिषति; अशिशिषति" इति। अटेरशेश्च सनीटि कृते टिष्शबदः, शिष्शब्दश्च द्विरुच्यते। "अरिरिषति" इति अर्त्तेः सन्निङ्गुणरपरत्वेषु कृतेषु रिष्शब्दो द्विरुच्यते। "स्थानिवद्भावः प्राप्नोति" इति। "सन्यङोः" ६।१।९ इत्यनेन सन्नन्तस्य द्विर्वचनमुच्यते, इट्? च सम्भक्तः। तस्मादसौ द्विर्वचनस्य निमित्तमित्यभिप्रायः। स्थानिवद्बावे च सति रेफरहितस्येषो द्विर्वचने कृते सवर्णदीर्घत्वे चारीषतीत्यनिष्टं रूपं स्यात्()। "कार्यी" इति। द्विरुक्तिरेव कार्यम्(), तदस्यास्तीति कार्यी। स्यादेतत्()--यद्यप्यसौ कार्यी तथापि कार्ये। स्यादेतत्()--यद्यप्यसौ कार्यी तथापि कार्यं प्रति निमित्तमेवेत्यादह--"न च" इत्यादि। कथं पुनज्र्ञायते एतत्? कार्यी निमित्तत्वेनाश्रीयते इति? अत आह--"तथा हि" इत्यादि। तथा हीति यस्मादित्यर्थे। इतिकरणः प्रकारे। यस्मात्? क्ङिन्निमित्तयोः गुणवृद्ध्योः "क्ङिति च" १।१।५ इति प्रतिषेधो विधीयमानः शयितेत्येवम्प्रकारविषये न भवति, ततो ज्ञायते--न हि कार्यी निमित्तत्वेनाश्रीयत इति। यदि ह्राश्रीयेत, तदा शीङो ङित्वात्? तन्निमित्ताच्च गुणवृद्ध्योः "क्ङिति च" १।१।५ इति विधीयमानः शयितेत्यत्र गुणप्रतिषेधश्च स्यात्(), शायक इत्यत्र वृद्धिप्रतिषेधश्च। ननु च येन विना यन्न भवति तत्? तस्य निमित्तम्(), यथा--वृष्टेर्मेघः। यथा च प्रत्ययेन विना गुणवृद्धी न भवतस्तथा कार्येणापि; तत्? कथं शीङो गुणबुद्धिप्रतिषेधो नेह भवति? इत्यत आह--"न हि कार्यिणः" इत्यादि। अत्राश्रीयत इत्यध्याहर्यम्()। सत्यम्(), कार्यपि शीङ्निमितम्(), तस्य गुणं प्रति वृदिं()ध द्रष्टव्यम्()। इतिकरणोऽनन्तरोऽस्यप्रतिविधानस्य स्वरूपं दर्शयति। कथं पुनज्र्ञायत#ए--न हि कार्यी निमित्तत्वेनाश्रीयत इति? "दीधीवेवीटाम्()" गुणवृद्ध्योः "क्ङिति च" १।१।५ इति फार्यो प्रतिषेधः सिद्ध #एवेति तयोर्गुणप्रतिषेधोऽनर्थकः स्यात्()। "अत्र केचिदजादेरिति कर्मधारयात्? पञ्चमीमिच्छन्ति" इति। "अच्चासावादिश्चेत्यजादिः, तस्मादजादेः" इति। एवं वर्णयन्तः कर्मधारयात्? पञ्चमीमिच्छन्ति। यदि तर्हि कर्मधारयादियं पञ्चमी तेषां द्वितीयग्रहणमनर्थकम्(); यस्मात्? तृतीयस्य प्राप्तिरेव नास्ति। येषां बहुव्रीहेरियं षष्ठ()भिमता, तेषामक्रियमाणे द्वितीयग्रहणे तृतीयस्यापि द्विर्वचनं प्राप्तिरेव नास्ति। येषां बहुव्रीहेरियं षष्ठ()भिमता, तेषामक्रियमाणे द्वितीयग्रहणे तृतीयस्यापि द्विर्वचनं प्राप्नोतीति तन्निवृत्त्यर्थं युक्तं द्वितीयग्रहणम्()। येषां च कर्मधारयादियं पञ्चम्यभिमता तेषां द्वितीय ग्रहणमनर्थकम्(); "तस्मादित्युत्तरस्य" १।१।६६ इत्यनेनानन्तरस्यैव द्वितीयस्य भविष्यति, न तृतीयस्य, व्यवहितत्वात्()? इत्यत आह--तेषाम्()" इत्यादि॥
तत्त्व-बोधिनी
अजादेर्द्वितीयस्य २१, ६।१।२

यदि बहुव्रीहेः षष्ठी तदा इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयितुमिच्छति इन्दिद्रीयिषतीत्यत्र दकारस्य "नन्द्राःर" इति द्वित्वनिषेधः स्यात्, किंतु अञ्चासावादिश्चाऽजादिस्तस्मादिति कर्मधारयादेषापञ्चमी।