पूर्वम्: ६।१।२००
अनन्तरम्: ६।१।२०२
 
सूत्रम्
आशितः कर्ता॥ ६।१।२०१
काशिका-वृत्तिः
आशितः कर्ता ६।१।२०७

आशितशब्दः कर्तृवाचि आद्युदात्तो भवति। आशितो देवदत्तः। अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्तः। तत्र था ऽथघञ् ६।२।१४३ इति प्राप्तः स्वरो बाध्यते। कर्तरि इति किम्? आशितमन्नम्। आशितं देवदत्तेन। पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे।
न्यासः
आशितः कत्र्ता। , ६।१।२०१

"अशेः" इति। "अश भोजने" (धा।पा।१५२३) इत्यस्मात् कत्र्तरि क्तो निपात्यते। "गत्यर्थाकर्मक" ३।४।७२ इत्यादिना। "पूर्ववत्? कर्मणि क्तः" ["पूर्वत्र"--काशिका] इति। "तयोरेव" ३।४।७० इत्यादिना। "उत्तरत्र भावे" इति। "नपुंसके" "भावे क्तः" ३।३।११४ इति॥