पूर्वम्: ६।१।२०४
अनन्तरम्: ६।१।२०६
 
सूत्रम्
युष्मदस्मदोर्ङसि॥ ६।१।२०५
काशिका-वृत्तिः
युष्मदस्मदोर् ङसि ६।१।२११

युष्मदस्मदी मदिक्प्रत्ययान्ते ऽन्तोदात्ते, तयोर् ङसि परतः आदिः उदात्तो भवति। तव स्वम्। मम स्वम्।
न्यासः
युष्मदस्मदोर्ङसि। , ६।१।२०५

"युष्मदस्मदी मदिक्प्रत्ययान्ते" इति। "युष्यसिभ्यां मदिक्()" (द।उ।६।५०) मदिक्प्रत्ययमुत्पाद्य तयोष्र्युत्पादनात्()। एतेन युष्मदस्मदोः प्रत्ययस्वरेणाअन्तोदात्तत्वं दर्शयति। "तव ममौ ङसि" ७।२।९६ इति युष्मदस्मदोर्मपर्यन्तस्य तवममौ, शेषे लोपे ७।२।९० कृते "अतो गृणे" ६।१।९४ पररूपत्वम्()। युष्मदस्मदोरादेशस्य स्थानिवद्भावादन्तोदात्तत्वम्। एवं च यो ह्रशादेशेन सहैकादेशः, सोऽपि "एकादेश उदात्तेनोदात्तः" ८।२।५ इत्युदात्त एवेत्यनेन क्रमेण विभक्तिस्वरे प्राप्त इदमुच्यते॥