पूर्वम्: ६।१।२०५
अनन्तरम्: ६।१।२०७
 
सूत्रम्
ङयि च॥ ६।१।२०६
काशिका-वृत्तिः
ङयि च ६।१।२१२

युष्मदस्मदोः इति वर्तते, आदिरुदात्तः इति च। ङे इत्येतस्मिंश्च परतो युष्मदस्मदोः आदिरुदात्तो भवति। तुभ्यम्। मह्यम्। पृथग्योगकरणं यथासङ्ख्यशङ्कानिवृत्त्यर्थम्।
न्यासः
ङयि च। , ६।१।२०६

"तुभ्यम्(), मह्रम्()" इति। "ङे प्रथमयोरम्()" ७।१।२८ इत्यम्भावः, "तुम्यमह्रौ ङयि" ७।२।९५ इति युष्मदस्मदोस्तुभ्यमह्रावादेशौ। किमर्थं पृथगयं योगः क्रियते? इत्यत आह--"पृथग्योगकरणम्()" इत्यादि। एकयोगे हि कार्यिणोः, निमित्तयोश्च समानत्वाद्यथासंख्यमत्र भवितव्यमिति कस्यचिदाशङ्का स्यात्()। अतः पृथग्योगकरणं यथासंख्यनिरासार्थमिति प्रदर्शनार्थम्()। ततश्चास्वरितत्वादेव यतासंख्यं न भविष्यति। आशङ्कातः कस्यचिन्मन्दबुद्धेः स्यादिति तन्निरासार्थं पृथग्योगकरणम्()। अयमपि पूर्ववदेव विभक्तिस्वरापवादः॥