पूर्वम्: ६।१।२०७
अनन्तरम्: ६।१।२०९
 
सूत्रम्
ईडवन्दवृशंसदुहां ण्यतः॥ ६।१।२०८
काशिका-वृत्तिः
ईडवन्दवृशंसदुहां ण्यतः ६।१।२१४

ईड वन्द वृ शंस दुह इत्येतेषां यो ण्यत् तदन्तस्य आदिरुदात्तो भवति। ईड्यम्। वन्द्यम्। वार्यम्। शंस्यम्। दोह्या धेनुः। द्व्यनुबन्धकत्वात् ण्यतो यद् ग्रहणेन ग्रहणं न अस्ति इति तित् स्वरितम् ६।१।१७९ इत्येतत् प्राप्तम्। वार्यम् इति वृङ् सम्भक्तौ इत्यस्य अयं ण्यत्। क्यब्विधौ हि वृञ एव ग्रहणम् इष्यते।
न्यासः
ईडवन्दवृशंसदुहां ण्यतः। , ६।१।२०८

"ईड स्तुतौ" (धा।पा।१६६७) "वदि अभिवादनस्तुत्योः" (धा।पा।११) "वृङ्? सम्भक्तौ" (धा।पा।१५०९) "शंस स्तुतौ" (धा।पा।७२८) [शंसु--धा।पा।] "दुह प्रपूरणे" (धा।पा।१०१४)--एतेभ्यो धातुभ्यः "ऋहलोण्र्यत्()" (३।१।१२४) इति ण्यत्? प्रत्ययः। कस्मिन्? पुनः प्राप्त इदमारभ्यते? इत्याह--"द्व्यनुबन्धकत्वात्()" इत्यादि। अथ कथं पुनर्वार्यमित्यत्र ण्यत्प्रत्ययः, यावता "एतिस्तुशासु" (३।१।१०९) इत्यादिना विशेषविहितेन क्यपा भवितव्यम्()? इत्याह--"वार्यम्()" इत्यादि। ननु च वृङोऽपि क्यपैव भवितव्यम्()। "वृ" इति सामान्यनिर्देशात्()? इत्याह--"क्यब्विधौ हि" इत्यादि॥