पूर्वम्: ६।१।२
अनन्तरम्: ६।१।४
 
सूत्रम्
न न्द्राः संयोगादयः॥ ६।१।३
काशिका-वृत्तिः
न न्द्राः संयोगादयः ६।१।३

द्वितीयस्य इति वर्तते। द्वितीयस्य एकाचो ऽवयवभूतानां न्द्राणां तदन्तर्भावात् प्राप्तं द्विर्वचनं प्रतिषिध्यते। नकारदकाररेफा द्वितीयैकाचो ऽवयवभूताः संयोगादयो न द्विरुद्यन्ते। उन्दिदिषति। अड्डिडिषति। अर्चिचिषति। न्द्राः इति किम्? ईचिक्षिषते। संयोगादयः इति किम्? प्राणिणिषति। अनितेः ८।४।१९ उभौ साभ्यासस्य ८।४।२० इति णत्वम्। अजादेः इत्येव, दिद्रासति। केचिदजादेः इत्यपि पञ्चम्यन्तं कर्मधारयम् अनुवर्तयन्ति। तस्य प्रयोजनम्, इन्दिद्रीयिषति इति। अजादेरनन्तरत्वाभावाद् दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते। इन्द्रम् इच्छति इति क्यच्। तदन्तातिन्द्रीयितुम् इच्छति इति सन्। बकारस्य अप्ययं प्रतिषेधो वक्तव्यः। उब्जिजिषति। यदा बकरोपध उब्जिरुपदिश्यते तदा अयं प्रतिषेधः। दकारोपधोपदेशे तु न वक्तव्यः। बत्वं तु दकारस्य विधातव्यम्। यकारपरस्य रेफस्य प्रतिषेधो न भवति इति वक्तव्यम्। अरार्यते। अर्तेः अट्यर्तिशूर्णोतीनाम् उपसंख्यानम् ७।४।८२ इति यङ्। तत्र यङि च ७।४।३० इति गुणः, ततो द्विर्वचनम्। ईर्ष्यतेस् तृतीयस्य द्वे भवत इति वक्तव्यम् कस्य तृतीयस्य? केचिदाहुर् व्यञ्जनस्य इति। ईर्ष्यियिषति। अपरे पुनः तृतीयस्य एकाचः इति व्याचक्षते। ईर्ष्यिषिषति। कण्ड्वादीनां तृतीयस्य एअकाचो द्वे भवत इति वक्त्व्यम्। कण्डूयियिषति। असुयियिषति। वा नामधातूनां तृतीयस्य एकाच् द्वे भवत इति वक्तव्यम्। अश्वीयियिषति। अशिश्वीयिषति। अपर आह यथा इष्टं नामधातुष्विति वक्तव्यम्। पुपुत्रीयिषति। पुतित्रीयिषति। पुत्रीयियिषति। पुपुतित्रीयियिषति। पुत्रीयिषिषति।
लघु-सिद्धान्त-कौमुदी
न न्द्राः संयोगादयः ६०३, ६।१।३

अचः पराः संयोगादयो नदरा द्विर्न भवन्ति। नुशब्दस्य द्वित्वम्। ऊर्णुनाव। ऊर्णुनुवतुः। ऊर्णुनुवुः॥
न्यासः
न न्द्राः संयोगादयः। , ६।१।३

"तदन्तर्भावात्()" इति। अवयवानां समुदायाभ्यन्तरत्वात्? तदन्तभविः। "अवयवभूताः" इति। आदिशब्दस्य नियतदेशावयववाचित्वाद्विशिष्टदेशावयवभूता इत्येषोऽर्थो वेदितव्यः। "अन्दिविषति" इति। "उन्दी क्लेदने", (धा।प।१४५७) सनीट च कृते दिष्शब्दस्य द्विर्वचनम्()। "अड्डिडिषति" इति। "अद्ड अभियोगे (धा।पा।३४८) इत्यत्र यः संयोगः स दकारादिः, तस्य ष्टुत्वेन दकारस्य डकारः, ष्टुत्वञ्च द्विर्वचनेऽसिद्धम्(), तेन सनीटि कृते विष्शब्दो द्विरुच्यते ततः ष्टुत्वम्। "अर्चिचिषति" इति "अर्च पूजायाम्()" (धा।पा।२०४), चिष्शब्दस्य द्विर्वचनम्()। "ईचिक्षिषते" इति। "ईक्ष दर्शने" (धा।पा।६१०) सनीटि च कृते क्षिष्शब्दस्य द्विर्वचनम्? "हलादिः शेषः" ७।४।६०, "कुहोश्चुः" ७।४।६२ इति चुत्वम्()। "प्राणिणिषति" इति। "()आस प्राणने" (धा।पा।१०६९), "अन च" (धा।पा।१०७०) प्रपूर्वः। "दिद्रासति" इति। "द्रा कुत्सितायाङ्गतौ" (धा।पा।१०५४)। "केचिदजादेः" इत्यादि। तेषां मतेनाजादेरुत्तरे ये नकारादयः संयोगादिभूतास्ते न द्विरुच्यन्त इति शूत्रार्थः। किं पुनस्तदनुवर्तनस्य प्रयोजनम्()? इत्यत आह--"तस्य" इत्यादि। दकारस्तु द्विरुच्यत एवेति कर्मधारयपञ्चम्यन्तानुवृत्तौ हि "तस्मादित्युत्तरस्य" १।१।६६ इत्यनन्तराणामेव नकारादीनां द्विर्वचनप्रतिषेधेन भवितव्यम्(); निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्()। दकारस्तत्र यद्यपि रेफदकारयोर्यः संयोगस्तदादिभूतः, तथापि नकारेण व्यवहितः। तस्माद्दकारोऽपि द्विरुच्यत एव। "इन्दिद्रीयिषति" इति। इन्द्रशब्दात्? क्वचि कृते "क्यचि च" ७।४।३३ इतीत्त्वम्(), क्यजन्तात्? सन्(), इट्(), "अतो लोपः" ६।४।४८ इत्यकारलोपः। "उब्जिजिषति" इति। "उब्ज आर्जवे" (धा।पा।१३०३)। "यदा बकारोपध उब्जरुपदिश्यते तदायं प्रतिषेधो वक्तव्यः दकारोपदेशे तु न वक्तव्यः "न न्द्राः" इत्यनेनैव सिद्धत्वात्()। "बत्वं तु तदा दकारस्य विधातव्यम्()" इति। उब्जित, उब्जिजिषतीति यथा स्यात्()। तदपि बतद्वमकुत्वविषये विधातव्यम्(); अन्यथाऽभ्युद्गः, समुद्ग इति न सिध्येत्()। दकारोपधस्यैव युक्तः पाठः। बत्वमात्रं वक्तव्यम्()? तदपि न वक्तवयम्(); तत्र "भुजन्युब्जौ पाण्युपतापयोः" (७।३।६१) इति निपातनादेव लिङ्गाव्? बत्वं लभ्यते। न चाभ्युद्गः, समुद्ग इत्यत्रापि प्रसज्येत, अकृत्वविषयत्वान्निपातनस्य; यत्र कुत्वं नास्ति तत्रैव बत्वं विज्ञायते, न तु कुत्वविषये। "यकारपरस्य" इत्यादि। यकारः परो यस्मात्? तस्य प्रतिषेधो न स्यादित्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्र कैश्चिदेवं व्याख्यायते--बहिरङ्गो रेफः, "गुणोऽर्त्तिसंयोगाद्योः" ७।४।२९ "यङि च" ७।४।३० इति गुणोऽङ्गस्य विधीयमानो यङि भवति बहिरङ्गः, तदाश्रितो रेफोऽपि बहिरह्ग एव, ततश्च सोऽन्तरङ्गे प्रतिषेऽसद्धः। तस्मात्? तसय द्विर्वचनप्रतिषेधो न भवतीति। यद्येवम्(), इन्दिदिषतीति नुमोऽपि प्रतिषेधो न प्राप्नोतीति? नैष दोषः; वक्ष्यति ह्रेतत्()--नुम्विषावुपदेशिवद्वचनमिति। नैयायिकास्त्वन्यथा वर्णयन्ति--"न न्द्राः संयोगादयः" ६।१।३ इति। तैः किमुक्तम्()? संयोगात्? पूर्वे नकारादयो न द्विरुच्यन्ते स चेद्भवति यकारान्तः संयोगः" इति तेनाराय्र्यत इत्यत्र संयोगस्य यकारान्तत्वात्? प्रतिषेधो न भवतीति। "अराय्र्यते" इति। "यङि च" ७।४।३० इति गुणे रपत्वे च र्यशब्दस्य द्विवचनम्(), हलादिशेषः ७।४।६० "दीर्घोऽकितः" ७।४।८३ इति दीर्घः। ननु चार्तेरहलादित्वाद्()यङा न भवितव्यम्(), स हि "धातोरेकाचः" (३।१।२२) इत्यादिना हलादेरेव धातोर्विधीयते? इत्याह--"अर्त्तेः" इत्यादि। "व्यञ्जनस्य" इति। ईष्र्यतेव्र्यञ्जनं यदेकाच्? द्विर्वचनं कत्र्तव्यम्()। तच्च व्यञ्जनं यकारः, तस्येटि कृते साच्कस्यैव द्विर्वचनं कत्र्तव्यमम्()। "एकाचः" इति। सनः। स हीटि कृते तृतीय एकाज्? भवति। तस्य द्विर्वचने कृते "सन्यतः" ७।४।७९ इतीत्त्वम्()। पूर्वं पूर्वमिणमाश्रित्य सर्वसकाराणां षत्वम्()। "कण्डूयियिषति" इति। "असूयियिषति" इति। "कण्डूञ्()", "असूञ्()" इति कण्ड्वादिषु पठ()एते, ततः "कण्ड्वादिभ्यो यक्()" ३।१।२७। "वा नामधातूनाम्()" इति। सुब्धातुर्नामधातुरभिधीयते। "अ()आईयियिषति" इति। अ()आशब्दात्? क्यजन्तात्? सनीटि च कृते यिष्शब्दस्य द्विर्वचनम्()। "आशि()आईयिषति" इति। ()आईशब्दस्य द्विर्वचनम्(), ह्यस्वत्वम्(), हलादिशेषः ७।४।६०। "यथेष्टम्()" इति। प्रथमादीनामन्यतरस्य यस्येष्यते तस्य कत्र्तव्यमिति॥
बाल-मनोरमा
न न्द्राः संयोगादयः २७७, ६।१।३

न न्द्राः। "एकाचो द्वे प्रथमस्ये"त्यतो "द्वे" इत्यनुवर्तते। "अजादेर्द्वितीयस्ये"त्यतोऽजादेरिति। अञ्चासौ आदिश्चेति कर्मदारयात्पञ्चमी। न्, द्, र् एषां द्वन्द्वः। तदाह--अचः परा इति। ननु "णु"इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह-- नुशब्दस्य द्वित्वमिति। णत्वस्येति। धातुपाठे "ऊर्णु" इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः। लिङ्गादिति। "उभौ साभ्यासस्ये"त्यस्याऽयमर्थः-- साभ्यासस्याऽनितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वं प्राप्नुत इति। प्राणिणदित्युदाहरणम्। "अत्र अनिते"रिति णत्वे कृते "पूर्वत्रासिद्धीयमद्विर्वचने" इति णत्वस्याऽसिद्धत्वाऽभावमाश्रित्य "णी"त्यस्य द्वित्वादेव खण्डद्वये मकारश्रवणसिद्धेः "उभौ साभ्यासस्ये"ति वचनं "पूर्वत्रासिद्धीयमद्विर्वचने" इत्यस्याऽनित्यतां गमयतीत्यर्थः। ऊर्णुनावेति। नुशब्दस्य द्वित्वे पूर्वनकारस्य "रषाभ्या"मिति णत्वम्। द्वितीयस्य तु "अट्कुप्वा"ङिति न णत्वम्, "उभौ साभ्यासस्ये"ति लिङ्गादेव।

तत्त्व-बोधिनी
न न्द्राः संयोगादयः २४३, ६।१।३

न न्द्राः। अजादेरिति वर्तते। स च कर्मधारयः। आदिग्रहणस्य तु प्रकृतेऽनुप्रयोगः। तदेतदाह-- अचः परा इति। उन्दिदिषति। इन्दिदिषति। अड्डिडिषति। अर्चिचिषति। "न न्द्राः" इति किम्?। ईक्षतेः सनि ईचिक्षिषते। संयोगादयः किम्?। प्राणिणिशति। अरिरिषति। अचः पराः किम्?। इन्द्रीयितुमिच्छतीति क्यजन्तात्सनि इन्दिद्रीयिषति। इह नकारस्य द्वित्वाऽभावेऽपि दकारस्तु द्विरुच्यत एव, अचः परत्वाऽभावात्। नुशब्दस्येति। उपदेशे नकारएव, णत्वं तु "रषाभ्या"मित्यनेनेति भावः। पूर्वत्रासिद्धीयमिति। अत्र द्विर्वचनशब्देन षाष्ठ()आष्टमिकं चोभयं गृह्रते। तत्र षाष्ठस्य ऊढिमाख्यत् औडिढदित्युदाहरणम्। आष्टमिकस्य तु द्रोग्धा,द्रोग्धा, द्रोढा- द्रोढेति। इह त्रिपादीस्थं घत्वढत्वादिकं द्विर्वचने सिद्धमेव। असिद्धत्वे तु त्रिपादीस्थकार्यात्पूर्वमेव द्रोहता इत्यस्य द्वित्वे, पश्चात् "वाह द्रुहे" ति घत्वढत्वयोः प्रवृत्तौ द्रोग्धा द्रोढेत्यपि द्विर्वचनं कदाचित्स्यान्न तु द्रोग्धा-- द्रोग्धेति। समानजातीयस्यैव नियमेन द्विर्वचनं सिध्यति। किंच षट् सन्त इत्यत्र धस्य जश्त्वेन दकारे व्यक्तिभेदाद्दकारस्यापि द्वित्वं सुवचमेवेत्याहुः। अनित्यमित#इ। अत एव हतिशब्दस्य द्वित्वमौजिढदित्यपि नामधातुषु वक्ष्यति। उभौ साभ्यासस्येति। "अनिते" रित्यनेन णत्वं कृत्वा द्विर्वचने कृते प्राणिणत् प्राणिणिषतीति सिद्धमिति सूत्रमिदं ज्ञापकमित्यर्थः। एवं च "प्रणिनाये"त्यादौ द्वितीयस्य णत्वाऽभावः सिद्धः। विभाषोर्णोः। "गाङ्कुटादिभ्यः" इत्यतो ङिदिति, "विज इ" डित्यत इडिति चानुवर्तते इत्याशयेनाह-इडादिप्रत्यय इत्यादि। तेन गुणविकल्पे पक्षे उवङ्।