पूर्वम्: ६।१।२९
अनन्तरम्: ६।१।३१
 
सूत्रम्
विभाषा श्वेः॥ ६।१।३०
काशिका-वृत्तिः
विभाषा श्वेः ६।१।३०

लिड्य्ङोः इति वर्तते, सम्प्रसरणम् इति च। लिटि यङि च श्वयतेर् धातोः विभाषा सम्प्रसारणं भवति। शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। यगि शोशूयते, शेश्वीयते। तदत्र यङि सम्प्रसारणम् अप्राप्तं विभाष विधीयते। लिटि तु किति यजादित्वात् नित्यं प्राप्तं, तत्र सर्वत्रविकल्पो भवति इत्येषा उभयत्रविभाषा। यदा च धातोर् न भवति तदा लिट्यभ्यासस्य उभयेषाम् ६।१।१७ इत्यभ्यासस्य अपि न भवति।
न्यासः
विभाषा श्वेः। , ६।१।३०

"शुशाव" इति। लिटि णलि सम्प्रसारणे कृते वृद्ध्यावादेशौ। "शि()आआय" इति। यदा न सम्प्रसारणं तदा वृद्ध्यायादेशौ। "शुशुवतुः, शि()इआयतुः, इति। यदा सम्प्रसारणं तदोवङ्(), अन्यदेयङ्। "अप्राप्तम्()" इति। केनचिवविहितत्वात्()। "लिट()भ्यासस्योभयेषाम्()" (६।१।१७) इत्युभयत्रोभयग्रहणादन्यत्? कार्यं प्रवर्तमानमपास्याभ्यासस्य सम्प्रसारणमेव यथा स्यादित्येतदुभयेषांग्रहणस्य प्रयोजनमुक्तम्()। ततश्चेयमपि विकल्पं बाधित्वा नित्यं सम्प्रसारण मेव स्यादिति कस्यचिद्भ्रान्तिः स्यात्? अतस्तां निराकर्त्तुमाह--"यदा च" इत्यादि। अत्र ()आयतेर्विभाषा सम्प्रसारणमुच्यते, यदि कदाचिद्धातोर्न सम्प्रसारणं भवति तदाब्यासस्य स्यात्? ततश्च ()आयतेः सम्प्रसारणं पाक्षिकं न कृतं स्यात्()। स्यादेतत्()--लिट्परस्य शक्यतेरिदं विकल्पेन कार्यं विधीयते, तस्य च तदस्त्येवेति? असम्यगेतत्(); द्विष्प्रयोगे हि द्विर्वचने क्रियामात्रं भिद्यते, न धातुरूपमिति कुतः पूर्वपरयोः कार्यसम्बन्धं प्रति भेदः? तस्माद्यदा धातोर्न भवति तदाभ्यासस्यापि न भवत्येव॥
बाल-मनोरमा
विभाषा श्वेः २५१, ६।१।३०

संप्रसारणमिति। "ष्यङ संप्रसारण""मित्यतस्तदनुवृत्तेरिति भावः। लिटि यङि चेति। "लिङ्यङो"रित्यनुवृत्तेरिति भावः। शुशावेति। णलि अभ्याससंप्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन संप्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः। अकित्त्वाद्वचिस्वपीत्यस्य नाऽत्र प्राप्तिः। तथा च लिट()कित्स्वेकवचनेषु द्वित्वात्प्रागप्राप्तस्य संप्रसारणस्य विकल्पविधिः। "शुशुवतु"रित्यादिद्विवचनबहुवचनेषु तु द्वित्वात्प्राग्वचिसवपीति प्राप्तस्य संप्रसारणसय विकलपविधिः। तथा च उभयत्र विभाषेयम्। यङंशे त्वप्राप्तविभाषैवेयम्-- शोशूयते। शे()आईयते। तत्र णलि एतत्संप्रसारणाऽभावपक्षे "()आईत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शु()आआय इति प्राप्ते आह--()आयतेर्लिट()भ्यासलक्षणप्रतिषेध इति। लिट()भ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः। तथा च "()इआ"इत्यभ्यासस्य संप्रसारणे पूर्वरूपे "अकृत्सार्वधातुकयो"रिति दीर्घ इति भावः। लुङि विशेषमाह-- जृ()स्तन्भ्विति। तथा च अ()इआ अ त् इति स्थिते इयङि प्राप्ते--

तत्त्व-बोधिनी
विभाषा श्वेः २२२, ६।१।३०

विभाषा श्वेः। लिटि यङि चेति। "लिड()ङोश्चे"ति पूर्वसूत्रमिहानुवर्तत इति भावः। उभयत्रविभाषेयम्। लिडंशे अतुसादौ नित्यं प्राप्ते, णलादावप्राप्ते। यङंशे त्वप्राप्तविभाषा। शोशूयते। शे()आईयते। संप्रसारणं नेति। अन्यथा शु()आआयेत्यादि स्यादिति भावः।