पूर्वम्: ६।१।३७
अनन्तरम्: ६।१।३९
 
सूत्रम्
वश्चास्यान्यतरस्याम् किति॥ ६।१।३८
काशिका-वृत्तिः
वश् च अस्य अन्यतरस्यां किति ६।१।३९

अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवति अन्यतरस्याम्। ऊवतुः, ऊवुः। ऊयतुः, ऊयुः। किति इति किम्? उवाय। उवयिथ।
न्यासः
वश्चास्यान्यतरस्यां किति। , ६।१।३८

बाल-मनोरमा
वश्चास्याऽन्यतरस्यां किति २४५, ६।१।३८

वश्चास्या। "लिटि वयो यः" इत्यनुवर्तते। तदाह--वयोयस्येत्यादि। उवयिथेति। अकित्त्वान्न वः। अजन्तत्वादकारवत्त्वाच्च थलि इड्विकल्पमाशङ्क्याह-- वयेस्तासावभावात्थलि नित्यमिडिति। वयेर्लिट()एव विहितत्वेन तासावभवात् "अचस्तास्व"दिति "उपदेशेऽत्वतः" इति च इण्निषेधऽप्रसक्त्या क्रादिनयिमान्नित्यनिडित्यर्थः। "यस्तासावस्ति नित्याऽनिट् चे"ति भाष्यम्। ऊयथुः- ऊवथुः ऊय-ऊव। उवाय, उवय, ऊयिव-ऊविव, ऊयिम--ऊविम। ननु वयेरञित्त्वात्कथमुभयपदत्वमित्यत आह-- स्थानिवद्भावेनेति। ऊये ऊवे इति। "वश्चास्यान्यतरस्या"मिति वत्वविकल्पः। वत्वाऽभावे "लिटि वयो यः" इति यकारस्य संप्रसारणनिषेधः। वकारस्य "ग्रहिज्ये"ति, "वचिस्वपी"ति वा संप्रसारणम्। ऊयाते ऊयिरे। ऊयिषे ऊयाथे [ऊयिढ्वे] ऊयिध्वे। ऊये उयिवहे ऊयिमहे। क्रादिनियमादिट्। एवम् ऊवाते ऊविरे इत्यादि। वयादेशाऽभावे इति। यजादित्वात् "लिट()भ्यासस्ये"ति "वचिस्वपी"ति च संप्रसारणे प्राप्ते सती"ति शेषः।

तत्त्व-बोधिनी
वश्चास्याऽन्यतरस्यां किति २१६, ६।१।३८

वश्चास्या।"अस्ये"त्यनेन "वयो यः" इति परामृश्यते। तदाह-- वयो यस्येति। "वो वा किती"त्येव सुवचं, लिटि वयो यः" इति प्रकृतत्वात्। "उपदेशेऽत्वतः" इति निषेधमाशङ्क्याह--- वयस्तासावभावादिति। ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत्। अत्राहुः--- शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके। "अचस्तास्व"दिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र नातिदिश्यते, "अच" इत्युक्तेरल्विधित्वादिति।