पूर्वम्: ६।१।४५
अनन्तरम्: ६।१।४७
 
सूत्रम्
स्फुरतिस्फुलत्योर्घञि॥ ६।१।४६
काशिका-वृत्तिः
स्फुरतिस्फुलत्योर् घञि ६।१।४७

अदेचः इति वर्तते। स्फुर स्फुल चलने इत्येतयोर् धात्वोः एचः स्थाने घञि परतः आकारादेशो भवति। विस्फारः। विस्फालः। विष्फारः। विष्फालः स्फुरतिस्फुलत्योर् निर्निविभ्यः ८।३।७६ इति वा षत्वम्।
न्यासः
स्फुरतिस्फुलत्योर्घञि। , ६।१।४६

"विस्फारः, विस्फालः" इति। भावे घञ्(), "हलश्च" ३।३।१२१ इति करणाधिकरणयोर्वा॥
तत्त्व-बोधिनी
रफुरतिस्फुलत्योर्घञि १५१६, ६।१।४६

आचमेति। "नोदात्ते"ति सूत्रे "अनाचमे"रित्युक्तत्वादिति भावः। तत्रैव सूत्रे"ऽनाचमिकमिवमीना"मिति वार्तिकाद्वृद्धिनिषेधो नेत्याह-- कामः वाम इति। अपाणिनीयमिति। श्रमेरुदात्तोपदेशत्वाद्धञि, वृद्धेर्दुर्लभत्वात्। यदि तु "धुर्यान्विश्रामय"न्नित्यादिवण्णिचि वृद्धिमाश्रित्य णिजन्तादेरच् क्रियते तदा रूपं सिध्यति। न च णिच्यपि वृद्धिनिषेधः शङ्क्यः। "नोदात्ते"त्यत्र "कृती"त्यनुवृत्त्या णिचि निषेधाऽभावात्। न चैवमपि "मितां ह्यस्वःर" इति ह्यस्वः स्यादिति शङ्क्यं, वेत्यनुवर्त्त्य व्यवस्थिविभाषाश्रयणेन ह्यस्वाऽभावसिद्धेः। परन्तु णिजन्तकल्पनायामर्थो भिद्यत इति भावः। वस्तुतस्तु "निवृत्तप्रेषमाद्धातोः प्राकृतेऽर्थे णि"जिति विवक्षायां तु न दोष इत्यवधेयम्। एवं च "रोगी चिरप्रवासी परान्नभोजी परावसथशायी। यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः" इत्यादिकविप्रयोगाः साधव एवेति बोध्यम्।