पूर्वम्: ६।१।४८
अनन्तरम्: ६।१।५०
 
सूत्रम्
मीनातिमिनोतिदीङां ल्यपि च॥ ६।१।४९
काशिका-वृत्तिः
मीनातिमिनोतिदीङां ल्यपि च ६।१।५०

आदेच उपदेशे ६।१।४४ इति वर्तते। मीञ् हिंसायाम्, डुमिञ् प्रक्षेपणे, दीङ् क्षये इत्येतेषं धातूनां ल्यपि विषये, चकारादेचश्च विषये उपदेशे एव प्राक् प्रत्ययोत्पत्तेः अलो ऽन्यस्य स्थाने आकारादेशो भवति। प्रमाता। प्रमातव्यम्। प्रमातुम्। प्रमाय। निमाता। निमातव्यम्। निमातुम्। निमाय। उपदाता। उपदातव्यम्। उपदातुम्। उपदाय। उपदेशे एव आत्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति। आकारलक्षणश्च भवति, उपदायो वर्तते। ईषदुपदानम् इति घञ्युचौ भवतः।
लघु-सिद्धान्त-कौमुदी
मीनातिमिनोतिदीङां ल्यपि च ६४१, ६।१।४९

एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते। दाता। दास्यति। (स्थाघ्वोरित्त्वे दीङः प्रतिषेधः)। अदास्त॥ डीङ् विहायसा गतौ॥ १६॥ डीयते। डिड्ये। डयिता॥ पीङ् पाने॥ १७॥ पीयते। पेता। अपेष्ट॥ माङ् माने॥ १८॥ मायते। ममे॥ जनी प्रादुर्भावे॥ १९॥
न्यासः
मीनातिमिनोतिदीङां ल्यपि च। , ६।१।४९

"उपदेश" ६।१।४४ इत्यनुवृत्तेः प्रागेव प्रत्ययोत्पत्तेरात्त्वेन भवितव्यमिति, अत आत्वविधानकाले ल्यपः परत्वं न सम्भवतीति तस्माल्ल्यपीति विषयसप्तमीयं विज्ञायत इत्याह--"ल्यपि विषये" इति। एच इति यद्यपि प्रकृतविशेषणं प्रागासीत्(), तथापीहोपदेशाधिकारान्मीनातिप्रभृतीनां चोपदेशावस्थायामेचोऽसम्भवात्? सामथ्र्याद्विषयविशेषणं विज्ञायत इत्याह--"एचश्च विषये" इति। "उपदेशे" इत्यस्य प्रागित्यादिनार्थमाचष्टे। "प्रमाय" इति। "समासेऽनञ्()" ७।१।३७ इति ल्यप्()। कः पुनरुपदेशावस्थायामेवात्त्वविधानेऽर्थः सम्पद्यते, यदर्थमुपदेशावस्थायामात्त्वं क्रियते? इत्याह--"उपदेश एव" इत्यादि। इवर्णान्तलक्षणः "एरच्()" ३।३।५६ इत्यच, आकारान्तलक्षणः "आतो युच्()" ३।३।१२८ "उपदायः" इति। उपदेश एवात्त्वे कृते सत्यचो निमित्तं विहितमित्युसर्ग एव "भावे" (३।३।१८) इति घञ्? सिद्धो भवति। "आतो युक्? चिष्कृतोः" ७।३।३३ इति युक्()। "ईषदुपदानम्()" इति। उपदेशावस्थायामात्त्वे खलपवादो युच्? सिद्धो भवति॥
बाल-मनोरमा
मीनातिमिनोतिदीङां ल्यपि च ३३७, ६।१।४९

मीनातिमिनोति। "आदेच उपदेशेऽशिती"त्यताअदित्यनुवर्तते। तदाह-- एषामात्त्वं स्याल्ल्यपीति। चकारात् एचः, अशितीति परनिमित्तं समुच्चीयते। तत्र "एचट इत्यनन्तरं "निमित्ते" इति शेषः। एज्निमित्ते अशिति प्रत्यये च परे इति फलितम्। तदाह--अशित्येज्निमित्ते इति। "इति समुच्चीयते" इति शेषः। लुङ्याह--- अदास्तेति। इह आत्त्वे कृते घुत्वे सत्यपि स्थाध्वोरिच्चेति न भवति, "स्थाध्वोरित्त्वे दीङः प्रतिषेधः" इति घुसंज्ञासूत्रस्थभाष्यपठितवात्र्तकादिति भावः। धीङ् आधारे इति। आधारः-- आधारणम्। स्थापनमिति यावत्। लीङ् श्लेषणे इति। लीयते। लिल्ये।लिल्यिषे। [लिल्यिढ्वे। लिल्यिध्वे]।

तत्त्व-बोधिनी
मीनातिमिनोतिदीङां ल्यपि च २९३, ६।१।४९

मीनाति। मीञ् हिंसायाम्। डुमिञ् प्रक्षेपणे। प्रमाय। उपदाय। प्रमातव्यम्। उपदातव्य्। एज्निमित्त इति विषयसप्तमी। तेन आदावात्वं पश्चाद्धञ्। "आतो यु"गिति युक्। उपदाय इति सिध्यति। अन्यथा एरचि कृते तत आत्वे उपदा इति स्यात्। अदास्तेति। "दीङः प्रतिषेधः "स्थाध्वोरित्त्वेट इति न घुत्वमित्यदितेति रूपं न भवतीत्येके। अन्ये तु "स्थाध्वोरिच्चे"त्येतत्तु न भवति, दीङोऽनुकरणे दारूपाऽसंभवेनाऽघुत्वात्। अत एव प्रनिदातेत्यादौ "नेर्गदे"ति णत्वम् [अपि] न भवतीत्याहुः अयं भावः-- "द अवखण्डने" इत्यादेर्दारूपत्वं संभवति। "आदेच उपदेशे" इत्यस्याऽनैमित्तिकत्वात्।दीङस्तु एज्निमित्तप्रत्ययविषये आत्वं, दा इत्यनुकरणे एज्निमित्तस्याऽभावित्वान्न घुत्वम्। एवं च घुप्रकृतित्वमपि नास्तीति णत्वस्याऽप्रसक्तिरिति। डीङ्। डीनः। डीनवान्। स्वादिषु पाठसामथ्र्यान्निष्ठायामिण्न। इटि हि सति व्यवधानात्। "ओदितश्चे"ति नत्वं नस्यादिति। स्वादिषु पाठसमाथ्र्यादिड्व्यवधानेऽपि णत्वमस्त्विति न शङ्क्यम्, इष्टानुरोधात्। डयति इति प्रयोगस्तु भौवादिकस्य। "निष्ठा शीङ्" इत्यत्र निष्ठेति योगविभागादकत्त्वे गुण इत्याहुः। मीङ् हिंसायाम्। मीञिति क्र्य#आदौ। प्राणवियोग इति। मीयते। प्राणैर्वियुज्यत इत्यर्थः। लीङ्। ली श्लेषण इति क्र्यादौ।