पूर्वम्: ६।१।५३
अनन्तरम्: ६।१।५५
 
सूत्रम्
प्रजने वीयतेः॥ ६।१।५४
काशिका-वृत्तिः
प्रजने वीयतेः ६।१।५५

णौ इति वर्तते। वी गतिप्रजनकान्त्यसनखादनेषु इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतः विभाषा आकारादेशो भवति। पुरोवातो गः प्रवापयति, पुरोवातो गाः प्रवाययति। गर्भं ग्राहयति इत्यर्थः। प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम्।
न्यासः
प्रजने वीयतेः। , ६।१।५४

यदि "वा गतिगन्धनयोः (धा।पा।१०५०) इत्ययं धातुः प्रजने वत्र्तते, ततः शक्यतेऽपि योगोऽवक्तुम्(); वातेर्हि--वापयतीति भविष्यति, वीयतेस्तु--वाययतीति॥
बाल-मनोरमा
प्रजने वीयतेः ४३०, ६।१।५४

प्रजन वीयतेः। "आदेच उपदेशे" इत्यस्मादादेच इति,"चिस्फुरो"रित्तो णाविति, "विभाषा लीयतेः" इत्यतो विभाषेति चानुवर्तते। तदाह -- अस्यैच इत्यादि। "वीयते"रिति न स्यना निर्देशः, "वी गतिप्रजनस्थानार्जनोपार्जनेषु" केचित्। वस्तुतस्तु व्येञो न ग्रहणं, तस्य प्रजनार्थकत्वाऽभावात् , तस्य णौ "शाच्छासे"ति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाऽभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम्। गर्भं ग्राहयतीति। पुरोवातकाले गावो गर्भं गृह्णन्तीति प्रसिद्धिः। अथ "गुहू संवरणे" इत्यस्य गुणनिमित्तेऽजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति-- ऊदुपधाया गोह इति। गूहयतीति। लघूपधगुणापवाद ऊत्त्वमिति भावः।

तत्त्व-बोधिनी
प्रजने वीयतेः ३७४, ६।१।५४

प्रजने। "वीयते" रितिवी गतिप्रजनादौ,आदादिकस्य यका निर्देशः। अत्र केचिदुत्प्रेक्षयन्ति--वीतेरिति वक्तव्ये यका निर्देशाद्वेञोऽपि ग्रहणम्, तस्यापियकि संप्रसारणे वीधातुना समानरूपत्वात्। अतो द्वयोरपि प्रजनेऽर्थे आत्वं वा स्यात्। तत्र आत्वे, तदभावे च यद्यपि व्येञः व्याययतीति रूपं तुल्यं, "शाच्छासे"ति पुकोऽपवादतया युग्विधानात्, तथापि णिजन्तात्क्विप-- व्याः व्यौ व्याः। आत्वाऽभावपक्षे व्यैः व्यायौ व्याय इत्यस्ति विशेषः। विभाषाविधानसामथ्र्यात्पक्षेऽपि "आदेच उपदेशेऽशिती"ति न प्रवर्तते। अनेकार्थत्वाच्च धातूनां व्ययतेरपि प्रयोजनोऽर्थ इति।